गोमदश्वावद्रथवत्सुवीरं चन्द्रवद्राधो मरुतो ददा नः । प्रशस्तिं नः कृणुत रुद्रियासो भक्षीय वोऽवसो दैव्यस्य
हये नरो मरुतो मृळता नस्तुवीमघासो अमृता ऋतज्ञाः । सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहदुक्षमाणाः
तमु नूनं तविषीमन्तमेषां स्तुषे गणं मारुतं नव्यसीनाम् । य आश्वश्वा अमवद्वहन्त उतेशिरे अमृतस्य स्वराजः
त्वेषं गणं तवसं खादिहस्तं धुनिव्रतं मायिनं दातिवारम् । मयोभुवो ये अमिता महित्वा वन्दस्व विप्र तुविराधसो नॄन्
आ वो यन्तूदवाहासो अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति । अयं यो अग्निर्मरुतः समिद्ध एतं जुषध्वं कवयो युवानः
यूयं राजानमिर्यं जनाय विभ्वतष्टं जनयथा यजत्राः । युष्मदेति मुष्टिहा बाहुजूतो युष्मत्सदश्वो मरुतः सुवीरः
अरा इवेदचरमा अहेव प्रप्र जायन्ते अकवा महोभिः । पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः सं मिमिक्षुः
यत्प्रायासिष्ट पृषतीभिरश्वैर्वीळुपविभिर्मरुतो रथेभिः । क्षोदन्त आपो रिणते वनान्यवोस्रियो वृषभः क्रन्दतु द्यौः
प्रथिष्ट यामन्पृथिवी चिदेषां भर्तेव गर्भं स्वमिच्छवो धुः । वातान्ह्यश्वान्धुर्यायुयुज्रे वर्षं स्वेदं चक्रिरे रुद्रियासः
हये नरो मरुतो मृळता नस्तुवीमघासो अमृता ऋतज्ञाः । सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहदुक्षमाणाः
प्र व स्पळक्रन्सुविताय दावनेऽर्चा दिवे प्र पृथिव्या ऋतं भरे । उक्षन्ते अश्वान्तरुषन्त आ रजोऽनु स्वं भानुं श्रथयन्ते अर्णवैः
अमादेषां भियसा भूमिरेजति नौर्न पूर्णा क्षरति व्यथिर्यती । दूरेदृशो ये चितयन्त एमभिरन्तर्महे विदथे येतिरे नरः
गवामिव श्रियसे शृङ्गमुत्तमं सूर्यो न चक्षू रजसो विसर्जने । अत्या इव सुभ्वश्चारव स्थन मर्या इव श्रियसे चेतथा नरः
को वो महान्ति महतामुदश्नवत्कस्काव्या मरुतः को ह पौंस्या । यूयं ह भूमिं किरणं न रेजथ प्र यद्भरध्वे सुविताय दावने
अश्वा इवेदरुषासः सबन्धवः शूरा इव प्रयुधः प्रोत युयुधुः । मर्या इव सुवृधो वावृधुर्नरः सूर्यस्य चक्षुः प्र मिनन्ति वृष्टिभिः
ते अज्येष्ठा अकनिष्ठास उद्भिदोऽमध्यमासो महसा वि वावृधुः । सुजातासो जनुषा पृश्निमातरो दिवो मर्या आ नो अच्छा जिगातन
वयो न ये श्रेणीः पप्तुरोजसान्तान्दिवो बृहतः सानुनस्परि । अश्वास एषामुभये यथा विदुः प्र पर्वतस्य नभनूँरचुच्यवुः
मिमातु द्यौरदितिर्वीतये नः सं दानुचित्रा उषसो यतन्ताम् । आचुच्यवुर्दिव्यं कोशमेत ऋषे रुद्रस्य मरुतो गृणानाः
ईळे अग्निं स्ववसं नमोभिरिह प्रसत्तो वि चयत्कृतं नः । रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणिन्मरुतां स्तोममृध्याम्
आ ये तस्थुः पृषतीषु श्रुतासु सुखेषु रुद्रा मरुतो रथेषु । वना चिदुग्रा जिहते नि वो भिया पृथिवी चिद्रेजते पर्वतश्चित्
पर्वतश्चिन्महि वृद्धो बिभाय दिवश्चित्सानु रेजत स्वने वः । यत्क्रीळथ मरुत ऋष्टिमन्त आप इव सध्र्यञ्चो धवध्वे
वरा इवेद्रैवतासो हिरण्यैरभि स्वधाभिस्तन्वः पिपिश्रे । श्रिये श्रेयांसस्तवसो रथेषु सत्रा महांसि चक्रिरे तनूषु
अज्येष्ठासो अकनिष्ठास एते सं भ्रातरो वावृधुः सौभगाय । युवा पिता स्वपा रुद्र एषां सुदुघा पृश्निः सुदिना मरुद्भ्यः
यदुत्तमे मरुतो मध्यमे वा यद्वावमे सुभगासो दिवि ष्ठ । अतो नो रुद्रा उत वा न्वस्याग्ने वित्ताद्धविषो यद्यजाम
अग्निश्च यन्मरुतो विश्ववेदसो दिवो वहध्व उत्तरादधि ष्णुभिः । ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते
अग्ने मरुद्भिः शुभयद्भिरृक्वभिः सोमं पिब मन्दसानो गणश्रिभिः । पावकेभिर्विश्वमिन्वेभिरायुभिर्वैश्वानर प्रदिवा केतुना सजूः
के ष्ठा नरः श्रेष्ठतमा य एकएक आयय । परमस्याः परावतः
क्व वोऽश्वाः क्वाभीशवः कथं शेक कथा यय । पृष्ठे सदो नसोर्यमः
जघने चोद एषां वि सक्थानि नरो यमुः । पुत्रकृथे न जनयः
परा वीरास एतन मर्यासो भद्रजानयः । अग्नितपो यथासथ