मरुत्सु वो दधीमहि स्तोमं यज्ञं च धृष्णुया । विश्वे ये मानुषा युगा पान्ति मर्त्यं रिषः
अर्हन्तो ये सुदानवो नरो असामिशवसः । प्र यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः
आ रुक्मैरा युधा नर ऋष्वा ऋष्टीरसृक्षत । अन्वेनाँ अह विद्युतो मरुतो जज्झतीरिव भानुरर्त त्मना दिवः
ये वावृधन्त पार्थिवा य उरावन्तरिक्ष आ । वृजने वा नदीनां सधस्थे वा महो दिवः
शर्धो मारुतमुच्छंस सत्यशवसमृभ्वसम् । उत स्म ते शुभे नरः प्र स्यन्द्रा युजत त्मना
उत स्म ते परुष्ण्यामूर्णा वसत शुन्ध्यवः । उत पव्या रथानामद्रिं भिन्दन्त्योजसा
आपथयो विपथयोऽन्तस्पथा अनुपथाः । एतेभिर्मह्यं नामभिर्यज्ञं विष्टार ओहते
अधा नरो न्योहतेऽधा नियुत ओहते । अधा पारावता इति चित्रा रूपाणि दर्श्या
छन्दस्तुभः कुभन्यव उत्समा कीरिणो नृतुः । ते मे के चिन्न तायव ऊमा आसन्दृशि त्विषे
य ऋष्वा ऋष्टिविद्युतः कवयः सन्ति वेधसः । तमृषे मारुतं गणं नमस्या रमया गिरा
अच्छ ऋषे मारुतं गणं दाना मित्रं न योषणा । दिवो वा धृष्णव ओजसा स्तुता धीभिरिषण्यत
नू मन्वान एषां देवाँ अच्छा न वक्षणा । दाना सचेत सूरिभिर्यामश्रुतेभिरञ्जिभिः
प्र ये मे बन्ध्वेषे गां वोचन्त सूरयः पृश्निं वोचन्त मातरम् । अधा पितरमिष्मिणं रुद्रं वोचन्त शिक्वसः
सप्त मे सप्त शाकिन एकमेका शता ददुः । यमुनायामधि श्रुतमुद्राधो गव्यं मृजे नि राधो अश्व्यं मृजे
को वेद जानमेषां को वा पुरा सुम्नेष्वास मरुताम् । यद्युयुज्रे किलास्यः
ऐतान्रथेषु तस्थुषः कः शुश्राव कथा ययुः । कस्मै सस्रुः सुदासे अन्वापय इळाभिर्वृष्टयः सह
ते म आहुर्य आययुरुप द्युभिर्विभिर्मदे । नरो मर्या अरेपस इमान्पश्यन्निति ष्टुहि
ये अञ्जिषु ये वाशीषु स्वभानवः स्रक्षु रुक्मेषु खादिषु । श्राया रथेषु धन्वसु
युष्माकं स्मा रथाँ अनु मुदे दधे मरुतो जीरदानवः । वृष्टी द्यावो यतीरिव
आ यं नरः सुदानवो ददाशुषे दिवः कोशमचुच्यवुः । वि पर्जन्यं सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः
ततृदानाः सिन्धवः क्षोदसा रजः प्र सस्रुर्धेनवो यथा । स्यन्ना अश्वा इवाध्वनो विमोचने वि यद्वर्तन्त एन्यः
आ यात मरुतो दिव आन्तरिक्षादमादुत । माव स्थात परावतः
मा वो रसानितभा कुभा क्रुमुर्मा वः सिन्धुर्नि रीरमत् । मा वः परि ष्ठात्सरयुः पुरीषिण्यस्मे इत्सुम्नमस्तु वः
तं वः शर्धं रथानां त्वेषं गणं मारुतं नव्यसीनाम् । अनु प्र यन्ति वृष्टयः
शर्धंशर्धं व एषां व्रातंव्रातं गणंगणं सुशस्तिभिः । अनु क्रामेम धीतिभिः
कस्मा अद्य सुजाताय रातहव्याय प्र ययुः । एना यामेन मरुतः
येन तोकाय तनयाय धान्यं बीजं वहध्वे अक्षितम् । अस्मभ्यं तद्धत्तन यद्व ईमहे राधो विश्वायु सौभगम्
अतीयाम निदस्तिरः स्वस्तिभिर्हित्वावद्यमरातीः । वृष्ट्वी शं योराप उस्रि भेषजं स्याम मरुतः सह
सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः । यं त्रायध्वे स्याम ते
स्तुहि भोजान्स्तुवतो अस्य यामनि रणन्गावो न यवसे । यतः पूर्वाँ इव सखीँरनु ह्वय गिरा गृणीहि कामिनः