तामस्य रीतिं परशोरिव प्रत्यनीकमख्यं भुजे अस्य वर्पसः । सचा यदि पितुमन्तमिव क्षयं रत्नं दधाति भरहूतये विशे
स जिह्वया चतुरनीक ऋञ्जते चारु वसानो वरुणो यतन्नरिम् । न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यम्
देवं वो अद्य सवितारमेषे भगं च रत्नं विभजन्तमायोः । आ वां नरा पुरुभुजा ववृत्यां दिवेदिवे चिदश्विना सखीयन्
प्रति प्रयाणमसुरस्य विद्वान्सूक्तैर्देवं सवितारं दुवस्य । उप ब्रुवीत नमसा विजानञ्ज्येष्ठं च रत्नं विभजन्तमायोः
अदत्रया दयते वार्याणि पूषा भगो अदितिर्वस्त उस्रः । इन्द्रो विष्णुर्वरुणो मित्रो अग्निरहानि भद्रा जनयन्त दस्माः
तन्नो अनर्वा सविता वरूथं तत्सिन्धव इषयन्तो अनु ग्मन् । उप यद्वोचे अध्वरस्य होता रायः स्याम पतयो वाजरत्नाः
प्र ये वसुभ्य ईवदा नमो दुर्ये मित्रे वरुणे सूक्तवाचः । अवैत्वभ्वं कृणुता वरीयो दिवस्पृथिव्योरवसा मदेम
विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम् । विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे
ते ते देव नेतर्ये चेमाँ अनुशसे । ते राया ते ह्यापृचे सचेमहि सचथ्यैः
अतो न आ नॄनतिथीनतः पत्नीर्दशस्यत । आरे विश्वं पथेष्ठां द्विषो युयोतु यूयुविः
यत्र वह्निरभिहितो दुद्रवद्द्रोण्यः पशुः । नृमणा वीरपस्त्योऽर्णा धीरेव सनिता
एष ते देव नेता रथस्पतिः शं रयिः । शं राये शं स्वस्तय इषस्तुतो मनामहे देवस्तुतो मनामहे
अग्ने सुतस्य पीतये विश्वैरूमेभिरा गहि । देवेभिर्हव्यदातये
ऋतधीतय आ गत सत्यधर्माणो अध्वरम् । अग्नेः पिबत जिह्वया
विप्रेभिर्विप्र सन्त्य प्रातर्यावभिरा गहि । देवेभिः सोमपीतये
अयं सोमश्चमू सुतोऽमत्रे परि षिच्यते । प्रिय इन्द्राय वायवे
वायवा याहि वीतये जुषाणो हव्यदातये । पिबा सुतस्यान्धसो अभि प्रयः
इन्द्रश्च वायवेषां सुतानां पीतिमर्हथः । ताञ्जुषेथामरेपसावभि प्रयः
सुता इन्द्राय वायवे सोमासो दध्याशिरः । निम्नं न यन्ति सिन्धवोऽभि प्रयः
सजूर्विश्वेभिर्देवेभिरश्विभ्यामुषसा सजूः । आ याह्यग्ने अत्रिवत्सुते रण
सजूर्मित्रावरुणाभ्यां सजूः सोमेन विष्णुना । आ याह्यग्ने अत्रिवत्सुते रण
सजूरादित्यैर्वसुभिः सजूरिन्द्रेण वायुना । आ याह्यग्ने अत्रिवत्सुते रण
स्वस्ति नो मिमीतामश्विना भगः स्वस्ति देव्यदितिरनर्वणः । स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना
स्वस्तये वायुमुप ब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः । बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः
विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये । देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः
स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति । स्वस्ति न इन्द्रश्चाग्निश्च स्वस्ति नो अदिते कृधि
स्वस्ति पन्थामनु चरेम सूर्याचन्द्रमसाविव । पुनर्ददताघ्नता जानता सं गमेमहि
प्र श्यावाश्व धृष्णुयार्चा मरुद्भिरृक्वभिः । ये अद्रोघमनुष्वधं श्रवो मदन्ति यज्ञियाः
ते हि स्थिरस्य शवसः सखायः सन्ति धृष्णुया । ते यामन्ना धृषद्विनस्त्मना पान्ति शश्वतः
ते स्यन्द्रासो नोक्षणोऽति ष्कन्दन्ति शर्वरीः । मरुतामधा महो दिवि क्षमा च मन्महे