अग्निर्जागार तमृचः कामयन्तेऽग्निर्जागार तमु सामानि यन्ति । अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः
विदा दिवो विष्यन्नद्रिमुक्थैरायत्या उषसो अर्चिनो गुः । अपावृत व्रजिनीरुत्स्वर्गाद्वि दुरो मानुषीर्देव आवः
वि सूर्यो अमतिं न श्रियं सादोर्वाद्गवां माता जानती गात् । धन्वर्णसो नद्यः खादोअर्णा स्थूणेव सुमिता दृंहत द्यौः
अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय । वि पर्वतो जिहीत साधत द्यौराविवासन्तो दसयन्त भूम
सूक्तेभिर्वो वचोभिर्देवजुष्टैरिन्द्रा न्वग्नी अवसे हुवध्यै । उक्थेभिर्हि ष्मा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति
एतो न्वद्य सुध्यो भवाम प्र दुच्छुना मिनवामा वरीयः । आरे द्वेषांसि सनुतर्दधामायाम प्राञ्चो यजमानमच्छ
एता धियं कृणवामा सखायोऽप या माताँ ऋणुत व्रजं गोः । यया मनुर्विशिशिप्रं जिगाय यया वणिग्वङ्कुरापा पुरीषम्
अनूनोदत्र हस्तयतो अद्रिरार्चन्येन दश मासो नवग्वाः । ऋतं यती सरमा गा अविन्दद्विश्वानि सत्याङ्गिराश्चकार
विश्वे अस्या व्युषि माहिनायाः सं यद्गोभिरङ्गिरसो नवन्त । उत्स आसां परमे सधस्थ ऋतस्य पथा सरमा विदद्गाः
आ सूर्यो यातु सप्ताश्वः क्षेत्रं यदस्योर्विया दीर्घयाथे । रघुः श्येनः पतयदन्धो अच्छा युवा कविर्दीदयद्गोषु गच्छन्
आ सूर्यो अरुहच्छुक्रमर्णोऽयुक्त यद्धरितो वीतपृष्ठाः । उद्ना न नावमनयन्त धीरा आशृण्वतीरापो अर्वागतिष्ठन्
धियं वो अप्सु दधिषे स्वर्षां ययातरन्दश मासो नवग्वाः । अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्यंहः
हयो न विद्वाँ अयुजि स्वयं धुरि तां वहामि प्रतरणीमवस्युवम् । नास्या वश्मि विमुचं नावृतं पुनर्विद्वान्पथः पुरएत ऋजु नेषति
अग्न इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो । उभा नासत्या रुद्रो अध ग्नाः पूषा भगः सरस्वती जुषन्त
इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्यां मरुतः पर्वताँ अपः । हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शंसं सवितारमूतये
उत नो विष्णुरुत वातो अस्रिधो द्रविणोदा उत सोमो मयस्करत् । उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु मंसते
उत त्यन्नो मारुतं शर्ध आ गमद्दिविक्षयं यजतं बर्हिरासदे । बृहस्पतिः शर्म पूषोत नो यमद्वरूथ्यं वरुणो मित्रो अर्यमा
उत त्ये नः पर्वतासः सुशस्तयः सुदीतयो नद्यस्त्रामणे भुवन् । भगो विभक्ता शवसावसा गमदुरुव्यचा अदितिः श्रोतु मे हवम्
देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये । याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छत
उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट् । आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनाम्
प्रयुञ्जती दिव एति ब्रुवाणा मही माता दुहितुर्बोधयन्ती । आविवासन्ती युवतिर्मनीषा पितृभ्य आ सदने जोहुवाना
अजिरासस्तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम् । अनन्तास उरवो विश्वतः सीं परि द्यावापृथिवी यन्ति पन्थाः
उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिं पितुरा विवेश । मध्ये दिवो निहितः पृश्निरश्मा वि चक्रमे रजसस्पात्यन्तौ
चत्वार ईं बिभ्रति क्षेमयन्तो दश गर्भं चरसे धापयन्ते । त्रिधातवः परमा अस्य गावो दिवश्चरन्ति परि सद्यो अन्तान्
इदं वपुर्निवचनं जनासश्चरन्ति यन्नद्यस्तस्थुरापः । द्वे यदीं बिभृतो मातुरन्ये इहेह जाते यम्या सबन्धू
वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति । उपप्रक्षे वृषणो मोदमाना दिवस्पथा वध्वो यन्त्यच्छ
तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम् । अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय
कदु प्रियाय धाम्ने मनामहे स्वक्षत्राय स्वयशसे महे वयम् । आमेन्यस्य रजसो यदभ्र आँ अपो वृणाना वितनोति मायिनी
ता अत्नत वयुनं वीरवक्षणं समान्या वृतया विश्वमा रजः । अपो अपाचीरपरा अपेजते प्र पूर्वाभिस्तिरते देवयुर्जनः
आ ग्रावभिरहन्येभिरक्तुभिर्वरिष्ठं वज्रमा जिघर्ति मायिनि । शतं वा यस्य प्रचरन्स्वे दमे संवर्तयन्तो वि च वर्तयन्नहा