य ओहते रक्षसो देववीतावचक्रेभिस्तं मरुतो नि यात । यो वः शमीं शशमानस्य निन्दात्तुच्छ्यान्कामान्करते सिष्विदानः
तमु ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य । यक्ष्वा महे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य
दमूनसो अपसो ये सुहस्ता वृष्णः पत्नीर्नद्यो विभ्वतष्टाः । सरस्वती बृहद्दिवोत राका दशस्यन्तीर्वरिवस्यन्तु शुभ्राः
प्र सू महे सुशरणाय मेधां गिरं भरे नव्यसीं जायमानाम् । य आहना दुहितुर्वक्षणासु रूपा मिनानो अकृणोदिदं नः
प्र सुष्टुति स्तनयन्तं रुवन्तमिळस्पतिं जरितर्नूनमश्याः । यो अब्दिमाँ उदनिमाँ इयर्ति प्र विद्युता रोदसी उक्षमाणः
एष स्तोमो मारुतं शर्धो अच्छा रुद्रस्य सूनूँर्युवन्यूँरुदश्याः । कामो राये हवते मा स्वस्त्युप स्तुहि पृषदश्वाँ अयासः
प्रैष स्तोमः पृथिवीमन्तरिक्षं वनस्पतीँरोषधी राये अश्याः । देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात्
उरौ देवा अनिबाधे स्याम
समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम । आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि
आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीरुप नो यन्तु मध्वा । महो राये बृहतीः सप्त विप्रो मयोभुवो जरिता जोहवीति
आ सुष्टुती नमसा वर्तयध्यै द्यावा वाजाय पृथिवी अमृध्रे । पिता माता मधुवचाः सुहस्ता भरेभरे नो यशसावविष्टाम्
अध्वर्यवश्चकृवांसो मधूनि प्र वायवे भरत चारु शुक्रम् । होतेव नः प्रथमः पाह्यस्य देव मध्वो ररिमा ते मदाय
दश क्षिपो युञ्जते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता । मध्वो रसं सुगभस्तिर्गिरिष्ठां चनिश्चदद्दुदुहे शुक्रमंशुः
असावि ते जुजुषाणाय सोमः क्रत्वे दक्षाय बृहते मदाय । हरी रथे सुधुरा योगे अर्वागिन्द्र प्रिया कृणुहि हूयमानः
आ नो महीमरमतिं सजोषा ग्नां देवीं नमसा रातहव्याम् । मधोर्मदाय बृहतीमृतज्ञामाग्ने वह पथिभिर्देवयानैः
अञ्जन्ति यं प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः । पितुर्न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निमृतयन्नसादि
अच्छा मही बृहती शंतमा गीर्दूतो न गन्त्वश्विना हुवध्यै । मयोभुवा सरथा यातमर्वाग्गन्तं निधिं धुरमाणिर्न नाभिम्
प्र तव्यसो नमउक्तिं तुरस्याहं पूष्ण उत वायोरदिक्षि । या राधसा चोदितारा मतीनां या वाजस्य द्रविणोदा उत त्मन्
आ नामभिर्मरुतो वक्षि विश्वाना रूपेभिर्जातवेदो हुवानः । यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो विश्व ऊती
आ नो दिवो बृहतः पर्वतादा सरस्वती यजता गन्तु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मां नो वाचमुशती शृणोतु
आ वेधसं नीलपृष्ठं बृहन्तं बृहस्पतिं सदने सादयध्वम् । सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णमरुषं सपेम
आ धर्णसिर्बृहद्दिवो रराणो विश्वेभिर्गन्त्वोमभिर्हुवानः । ग्ना वसान ओषधीरमृध्रस्त्रिधातुशृङ्गो वृषभो वयोधाः
मातुष्पदे परमे शुक्र आयोर्विपन्यवो रास्पिरासो अग्मन् । सुशेव्यं नमसा रातहव्याः शिशुं मृजन्त्यायवो न वासे
बृहद्वयो बृहते तुभ्यमग्ने धियाजुरो मिथुनासः सचन्त । देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात्
उरौ देवा अनिबाधे स्याम
समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम । आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि
तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदम् । प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तमनु यासु वर्धसे
श्रिये सुदृशीरुपरस्य याः स्वर्विरोचमानः ककुभामचोदते । सुगोपा असि न दभाय सुक्रतो परो मायाभिरृत आस नाम ते
अत्यं हविः सचते सच्च धातु चारिष्टगातुः स होता सहोभरिः । प्रसर्स्राणो अनु बर्हिर्वृषा शिशुर्मध्ये युवाजरो विस्रुहा हितः
प्र व एते सुयुजो यामन्निष्टये नीचीरमुष्मै यम्य ऋतावृधः । सुयन्तुभिः सर्वशासैरभीशुभिः क्रिविर्नामानि प्रवणे मुषायति