वृष्णो अस्तोषि भूम्यस्य गर्भं त्रितो नपातमपां सुवृक्ति । गृणीते अग्निरेतरी न शूषैः शोचिष्केशो नि रिणाति वना
कथा महे रुद्रियाय ब्रवाम कद्राये चिकितुषे भगाय । आप ओषधीरुत नोऽवन्तु द्यौर्वना गिरयो वृक्षकेशाः
शृणोतु न ऊर्जां पतिर्गिरः स नभस्तरीयाँ इषिरः परिज्मा । शृण्वन्त्वापः पुरो न शुभ्राः परि स्रुचो बबृहाणस्याद्रेः
विदा चिन्नु महान्तो ये व एवा ब्रवाम दस्मा वार्यं दधानाः । वयश्चन सुभ्व आव यन्ति क्षुभा मर्तमनुयतं वधस्नैः
आ दैव्यानि पार्थिवानि जन्मापश्चाच्छा सुमखाय वोचम् । वर्धन्तां द्यावो गिरश्चन्द्राग्रा उदा वर्धन्तामभिषाता अर्णाः
पदेपदे मे जरिमा नि धायि वरूत्री वा शक्रा या पायुभिश्च । सिषक्तु माता मही रसा नः स्मत्सूरिभिरृजुहस्त ऋजुवनिः
कथा दाशेम नमसा सुदानूनेवया मरुतो अच्छोक्तौ प्रश्रवसो मरुतो अच्छोक्तौ । मा नोऽहिर्बुध्न्यो रिषे धादस्माकं भूदुपमातिवनिः
इति चिन्नु प्रजायै पशुमत्यै देवासो वनते मर्त्यो व आ देवासो वनते मर्त्यो वः । अत्रा शिवां तन्वो धासिमस्या जरां चिन्मे निरृतिर्जग्रसीत
तां वो देवाः सुमतिमूर्जयन्तीमिषमश्याम वसवः शसा गोः । सा नः सुदानुर्मृळयन्ती देवी प्रति द्रवन्ती सुविताय गम्याः
अभि न इळा यूथस्य माता स्मन्नदीभिरुर्वशी वा गृणातु । उर्वशी वा बृहद्दिवा गृणानाभ्यूर्ण्वाना प्रभृथस्यायोः
सिषक्तु न ऊर्जव्यस्य पुष्टेः
प्र शंतमा वरुणं दीधिती गीर्मित्रं भगमदितिं नूनमश्याः । पृषद्योनिः पञ्चहोता शृणोत्वतूर्तपन्था असुरो मयोभुः
प्रति मे स्तोममदितिर्जगृभ्यात्सूनुं न माता हृद्यं सुशेवम् । ब्रह्म प्रियं देवहितं यदस्त्यहं मित्रे वरुणे यन्मयोभु
उदीरय कवितमं कवीनामुनत्तैनमभि मध्वा घृतेन । स नो वसूनि प्रयता हितानि चन्द्राणि देवः सविता सुवाति
समिन्द्र णो मनसा नेषि गोभिः सं सूरिभिर्हरिवः सं स्वस्ति । सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमत्या यज्ञियानाम्
देवो भगः सविता रायो अंश इन्द्रो वृत्रस्य संजितो धनानाम् । ऋभुक्षा वाज उत वा पुरंधिरवन्तु नो अमृतासस्तुरासः
मरुत्वतो अप्रतीतस्य जिष्णोरजूर्यतः प्र ब्रवामा कृतानि । न ते पूर्वे मघवन्नापरासो न वीर्यं नूतनः कश्चनाप
उप स्तुहि प्रथमं रत्नधेयं बृहस्पतिं सनितारं धनानाम् । यः शंसते स्तुवते शम्भविष्ठः पुरूवसुरागमज्जोहुवानम्
तवोतिभिः सचमाना अरिष्टा बृहस्पते मघवानः सुवीराः । ये अश्वदा उत वा सन्ति गोदा ये वस्त्रदाः सुभगास्तेषु रायः
विसर्माणं कृणुहि वित्तमेषां ये भुञ्जते अपृणन्तो न उक्थैः । अपव्रतान्प्रसवे वावृधानान्ब्रह्मद्विषः सूर्याद्यावयस्व
य ओहते रक्षसो देववीतावचक्रेभिस्तं मरुतो नि यात । यो वः शमीं शशमानस्य निन्दात्तुच्छ्यान्कामान्करते सिष्विदानः
तमु ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य । यक्ष्वा महे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य
दमूनसो अपसो ये सुहस्ता वृष्णः पत्नीर्नद्यो विभ्वतष्टाः । सरस्वती बृहद्दिवोत राका दशस्यन्तीर्वरिवस्यन्तु शुभ्राः
प्र सू महे सुशरणाय मेधां गिरं भरे नव्यसीं जायमानाम् । य आहना दुहितुर्वक्षणासु रूपा मिनानो अकृणोदिदं नः
प्र सुष्टुति स्तनयन्तं रुवन्तमिळस्पतिं जरितर्नूनमश्याः । यो अब्दिमाँ उदनिमाँ इयर्ति प्र विद्युता रोदसी उक्षमाणः
एष स्तोमो मारुतं शर्धो अच्छा रुद्रस्य सूनूँर्युवन्यूँरुदश्याः । कामो राये हवते मा स्वस्त्युप स्तुहि पृषदश्वाँ अयासः
प्रैष स्तोमः पृथिवीमन्तरिक्षं वनस्पतीँरोषधी राये अश्याः । देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात्
उरौ देवा अनिबाधे स्याम
समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम । आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि
आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीरुप नो यन्तु मध्वा । महो राये बृहतीः सप्त विप्रो मयोभुवो जरिता जोहवीति