एवा न इन्द्रोतिभिरव पाहि गृणतः शूर कारून् । उत त्वचं ददतो वाजसातौ पिप्रीहि मध्वः सुषुतस्य चारोः
उत त्ये मा पौरुकुत्स्यस्य सूरेस्त्रसदस्योर्हिरणिनो रराणाः । वहन्तु मा दश श्येतासो अस्य गैरिक्षितस्य क्रतुभिर्नु सश्चे
उत त्ये मा मारुताश्वस्य शोणाः क्रत्वामघासो विदथस्य रातौ । सहस्रा मे च्यवतानो ददान आनूकमर्यो वपुषे नार्चत्
उत त्ये मा ध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः । मह्ना रायः संवरणस्य ऋषेर्व्रजं न गावः प्रयता अपि ग्मन्
अजातशत्रुमजरा स्वर्वत्यनु स्वधामिता दस्ममीयते । सुनोतन पचत ब्रह्मवाहसे पुरुष्टुताय प्रतरं दधातन
आ यः सोमेन जठरमपिप्रतामन्दत मघवा मध्वो अन्धसः । यदीं मृगाय हन्तवे महावधः सहस्रभृष्टिमुशना वधं यमत्
यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमाँ अह । अपाप शक्रस्ततनुष्टिमूहति तनूशुभ्रं मघवा यः कवासखः
यस्यावधीत्पितरं यस्य मातरं यस्य शक्रो भ्रातरं नात ईषते । वेतीद्वस्य प्रयता यतंकरो न किल्बिषादीषते वस्व आकरः
न पञ्चभिर्दशभिर्वष्ट्यारभं नासुन्वता सचते पुष्यता चन । जिनाति वेदमुया हन्ति वा धुनिरा देवयुं भजति गोमति व्रजे
वित्वक्षणः समृतौ चक्रमासजोऽसुन्वतो विषुणः सुन्वतो वृधः । इन्द्रो विश्वस्य दमिता विभीषणो यथावशं नयति दासमार्यः
समीं पणेरजति भोजनं मुषे वि दाशुषे भजति सूनरं वसु । दुर्गे चन ध्रियते विश्व आ पुरु जनो यो अस्य तविषीमचुक्रुधत्
सं यज्जनौ सुधनौ विश्वशर्धसाववेदिन्द्रो मघवा गोषु शुभ्रिषु । युजं ह्यन्यमकृत प्रवेपन्युदीं गव्यं सृजते सत्वभिर्धुनिः
सहस्रसामाग्निवेशिं गृणीषे शत्रिमग्न उपमां केतुमर्यः । तस्मा आपः संयतः पीपयन्त तस्मिन्क्षत्रममवत्त्वेषमस्तु
यस्ते साधिष्ठोऽवस इन्द्र क्रतुष्टमा भर । अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम्
यदिन्द्र ते चतस्रो यच्छूर सन्ति तिस्रः । यद्वा पञ्च क्षितीनामवस्तत्सु न आ भर
आ तेऽवो वरेण्यं वृषन्तमस्य हूमहे । वृषजूतिर्हि जज्ञिष आभूभिरिन्द्र तुर्वणिः
वृषा ह्यसि राधसे जज्ञिषे वृष्णि ते शवः । स्वक्षत्रं ते धृषन्मनः सत्राहमिन्द्र पौंस्यम्
त्वं तमिन्द्र मर्त्यममित्रयन्तमद्रिवः । सर्वरथा शतक्रतो नि याहि शवसस्पते
त्वामिद्वृत्रहन्तम जनासो वृक्तबर्हिषः । उग्रं पूर्वीषु पूर्व्यं हवन्ते वाजसातये
अस्माकमिन्द्र दुष्टरं पुरोयावानमाजिषु । सयावानं धनेधने वाजयन्तमवा रथम्
अस्माकमिन्द्रेहि नो रथमवा पुरंध्या । वयं शविष्ठ वार्यं दिवि श्रवो दधीमहि दिवि स्तोमं मनामहे
स आ गमदिन्द्रो यो वसूनां चिकेतद्दातुं दामनो रयीणाम् । धन्वचरो न वंसगस्तृषाणश्चकमानः पिबतु दुग्धमंशुम्
आ ते हनू हरिवः शूर शिप्रे रुहत्सोमो न पर्वतस्य पृष्ठे । अनु त्वा राजन्नर्वतो न हिन्वन्गीर्भिर्मदेम पुरुहूत विश्वे
चक्रं न वृत्तं पुरुहूत वेपते मनो भिया मे अमतेरिदद्रिवः । रथादधि त्वा जरिता सदावृध कुविन्नु स्तोषन्मघवन्पुरूवसुः
एष ग्रावेव जरिता त इन्द्रेयर्ति वाचं बृहदाशुषाणः । प्र सव्येन मघवन्यंसि रायः प्र दक्षिणिद्धरिवो मा वि वेनः
वृषा त्वा वृषणं वर्धतु द्यौर्वृषा वृषभ्यां वहसे हरिभ्याम् । स नो वृषा वृषरथः सुशिप्र वृषक्रतो वृषा वज्रिन्भरे धाः
यो रोहितौ वाजिनौ वाजिनीवान्त्रिभिः शतैः सचमानावदिष्ट । यूने समस्मै क्षितयो नमन्तां श्रुतरथाय मरुतो दुवोया
सं भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः स्वञ्चाः । तस्मा अमृध्रा उषसो व्युच्छान्य इन्द्राय सुनवामेत्याह
समिद्धाग्निर्वनवत्स्तीर्णबर्हिर्युक्तग्रावा सुतसोमो जराते । ग्रावाणो यस्येषिरं वदन्त्ययदध्वर्युर्हविषाव सिन्धुम्
वधूरियं पतिमिच्छन्त्येति य ईं वहाते महिषीमिषिराम् । आस्य श्रवस्याद्रथ आ च घोषात्पुरू सहस्रा परि वर्तयाते