आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोममिच्छन् । वदन्ग्रावाव वेदिं भ्रियाते यस्य जीरमध्वर्यवश्चरन्ति
ये चाकनन्त चाकनन्त नू ते मर्ता अमृत मो ते अंह आरन् । वावन्धि यज्यूँरुत तेषु धेह्योजो जनेषु येषु ते स्याम
अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानाँ अरम्णाः । महान्तमिन्द्र पर्वतं वि यद्वः सृजो वि धारा अव दानवं हन्
त्वमुत्साँ ऋतुभिर्बद्बधानाँ अरंह ऊधः पर्वतस्य वज्रिन् । अहिं चिदुग्र प्रयुतं शयानं जघन्वाँ इन्द्र तविषीमधत्थाः
त्यस्य चिन्महतो निर्मृगस्य वधर्जघान तविषीभिरिन्द्रः । य एक इदप्रतिर्मन्यमान आदस्मादन्यो अजनिष्ट तव्यान्
त्यं चिदेषां स्वधया मदन्तं मिहो नपातं सुवृधं तमोगाम् । वृषप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम्
त्यं चिदस्य क्रतुभिर्निषत्तममर्मणो विददिदस्य मर्म । यदीं सुक्षत्र प्रभृता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः
त्यं चिदित्था कत्पयं शयानमसूर्ये तमसि वावृधानम् । तं चिन्मन्दानो वृषभः सुतस्योच्चैरिन्द्रो अपगूर्या जघान
उद्यदिन्द्रो महते दानवाय वधर्यमिष्ट सहो अप्रतीतम् । यदीं वज्रस्य प्रभृतौ ददाभ विश्वस्य जन्तोरधमं चकार
त्यं चिदर्णं मधुपं शयानमसिन्वं वव्रं मह्याददुग्रः । अपादमत्रं महता वधेन नि दुर्योण आवृणङ्मृध्रवाचम्
को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः । इमे चिदस्य ज्रयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते
न्यस्मै देवी स्वधितिर्जिहीत इन्द्राय गातुरुशतीव येमे । सं यदोजो युवते विश्वमाभिरनु स्वधाव्ने क्षितयो नमन्त
एकं नु त्वा सत्पतिं पाञ्चजन्यं जातं शृणोमि यशसं जनेषु । तं मे जगृभ्र आशसो नविष्ठं दोषा वस्तोर्हवमानास इन्द्रम्
एवा हि त्वामृतुथा यातयन्तं मघा विप्रेभ्यो ददतं शृणोमि । किं ते ब्रह्माणो गृहते सखायो ये त्वाया निदधुः काममिन्द्र
महि महे तवसे दीध्ये नॄनिन्द्रायेत्था तवसे अतव्यान् । यो अस्मै सुमतिं वाजसातौ स्तुतो जने समर्यश्चिकेत
स त्वं न इन्द्र धियसानो अर्कैर्हरीणां वृषन्योक्त्रमश्रेः । या इत्था मघवन्ननु जोषं वक्षो अभि प्रार्यः सक्षि जनान्
न ते त इन्द्राभ्यस्मदृष्वायुक्तासो अब्रह्मता यदसन् । तिष्ठा रथमधि तं वज्रहस्ता रश्मिं देव यमसे स्वश्वः
पुरू यत्त इन्द्र सन्त्युक्था गवे चकर्थोर्वरासु युध्यन् । ततक्षे सूर्याय चिदोकसि स्वे वृषा समत्सु दासस्य नाम चित्
वयं ते त इन्द्र ये च नरः शर्धो जज्ञाना याताश्च रथाः । आस्माञ्जगम्यादहिशुष्म सत्वा भगो न हव्यः प्रभृथेषु चारुः
पपृक्षेण्यमिन्द्र त्वे ह्योजो नृम्णानि च नृतमानो अमर्तः । स न एनीं वसवानो रयिं दाः प्रार्य स्तुषे तुविमघस्य दानम्
एवा न इन्द्रोतिभिरव पाहि गृणतः शूर कारून् । उत त्वचं ददतो वाजसातौ पिप्रीहि मध्वः सुषुतस्य चारोः
उत त्ये मा पौरुकुत्स्यस्य सूरेस्त्रसदस्योर्हिरणिनो रराणाः । वहन्तु मा दश श्येतासो अस्य गैरिक्षितस्य क्रतुभिर्नु सश्चे
उत त्ये मा मारुताश्वस्य शोणाः क्रत्वामघासो विदथस्य रातौ । सहस्रा मे च्यवतानो ददान आनूकमर्यो वपुषे नार्चत्
उत त्ये मा ध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः । मह्ना रायः संवरणस्य ऋषेर्व्रजं न गावः प्रयता अपि ग्मन्
अजातशत्रुमजरा स्वर्वत्यनु स्वधामिता दस्ममीयते । सुनोतन पचत ब्रह्मवाहसे पुरुष्टुताय प्रतरं दधातन
आ यः सोमेन जठरमपिप्रतामन्दत मघवा मध्वो अन्धसः । यदीं मृगाय हन्तवे महावधः सहस्रभृष्टिमुशना वधं यमत्
यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमाँ अह । अपाप शक्रस्ततनुष्टिमूहति तनूशुभ्रं मघवा यः कवासखः
यस्यावधीत्पितरं यस्य मातरं यस्य शक्रो भ्रातरं नात ईषते । वेतीद्वस्य प्रयता यतंकरो न किल्बिषादीषते वस्व आकरः
न पञ्चभिर्दशभिर्वष्ट्यारभं नासुन्वता सचते पुष्यता चन । जिनाति वेदमुया हन्ति वा धुनिरा देवयुं भजति गोमति व्रजे
वित्वक्षणः समृतौ चक्रमासजोऽसुन्वतो विषुणः सुन्वतो वृधः । इन्द्रो विश्वस्य दमिता विभीषणो यथावशं नयति दासमार्यः