अग्ने चिकिद्ध्यस्य न इदं वचः सहस्य । तं त्वा सुशिप्र दम्पते स्तोमैर्वर्धन्त्यत्रयो गीर्भिः शुम्भन्त्यत्रयः
अग्ने सहन्तमा भर द्युम्नस्य प्रासहा रयिम् । विश्वा यश्चर्षणीरभ्यासा वाजेषु सासहत्
तमग्ने पृतनाषहं रयिं सहस्व आ भर । त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः
विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः । होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु
स हि ष्मा विश्वचर्षणिरभिमाति सहो दधे । अग्न एषु क्षयेष्वा रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि
अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः
वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः
स नो बोधि श्रुधी हवमुरुष्या णो अघायतः समस्मात्
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः
अच्छा वो अग्निमवसे देवं गासि स नो वसुः । रासत्पुत्र ऋषूणामृतावा पर्षति द्विषः
स हि सत्यो यं पूर्वे चिद्देवासश्चिद्यमीधिरे । होतारं मन्द्रजिह्वमित्सुदीतिभिर्विभावसुम्
स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या । अग्ने रायो दिदीहि नः सुवृक्तिभिर्वरेण्य
अग्निर्देवेषु राजत्यग्निर्मर्तेष्वाविशन् । अग्निर्नो हव्यवाहनोऽग्निं धीभिः सपर्यत
अग्निस्तुविश्रवस्तमं तुविब्रह्माणमुत्तमम् । अतूर्तं श्रावयत्पतिं पुत्रं ददाति दाशुषे
अग्निर्ददाति सत्पतिं सासाह यो युधा नृभिः । अग्निरत्यं रघुष्यदं जेतारमपराजितम्
यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो । महिषीव त्वद्रयिस्त्वद्वाजा उदीरते
तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत् । उतो ते तन्यतुर्यथा स्वानो अर्त त्मना दिवः
एवाँ अग्निं वसूयवः सहसानं ववन्दिम । स नो विश्वा अति द्विषः पर्षन्नावेव सुक्रतुः
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान्वक्षि यक्षि च
तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम् । देवाँ आ वीतये वह
वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि । अग्ने बृहन्तमध्वरे
अग्ने विश्वेभिरा गहि देवेभिर्हव्यदातये । होतारं त्वा वृणीमहे
यजमानाय सुन्वत आग्ने सुवीर्यं वह । देवैरा सत्सि बर्हिषि
समिधानः सहस्रजिदग्ने धर्माणि पुष्यसि । देवानां दूत उक्थ्यः
न्यग्निं जातवेदसं होत्रवाहं यविष्ठ्यम् । दधाता देवमृत्विजम्
प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः । स्तृणीत बर्हिरासदे
एदं मरुतो अश्विना मित्रः सीदन्तु वरुणः । देवासः सर्वया विशा
अनस्वन्ता सत्पतिर्मामहे मे गावा चेतिष्ठो असुरो मघोनः । त्रैवृष्णो अग्ने दशभिः सहस्रैर्वैश्वानर त्र्यरुणश्चिकेत
यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति । वैश्वानर सुष्टुतो वावृधानोऽग्ने यच्छ त्र्यरुणाय शर्म
एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं त्रसदस्युः । यो मे गिरस्तुविजातस्य पूर्वीर्युक्तेनाभि त्र्यरुणो गृणाति