स हि द्युभिर्जनानां होता दक्षस्य बाह्वोः । वि हव्यमग्निरानुषग्भगो न वारमृण्वति
अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः । विश्वा यस्मिन्तुविष्वणि समर्ये शुष्ममादधुः
अधा ह्यग्न एषां सुवीर्यस्य मंहना । तमिद्यह्वं न रोदसी परि श्रवो बभूवतुः
नू न एहि वार्यमग्ने गृणान आ भर । ये वयं ये च सूरयः स्वस्ति धामहे सचोतैधि पृत्सु नो वृधे
आ यज्ञैर्देव मर्त्य इत्था तव्यांसमूतये । अग्निं कृते स्वध्वरे पूरुरीळीतावसे
अस्य हि स्वयशस्तर आसा विधर्मन्मन्यसे । तं नाकं चित्रशोचिषं मन्द्रं परो मनीषया
अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा । दिवो न यस्य रेतसा बृहच्छोचन्त्यर्चयः
अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ । अधा विश्वासु हव्योऽग्निर्विक्षु प्र शस्यते
नू न इद्धि वार्यमासा सचन्त सूरयः । ऊर्जो नपादभिष्टये पाहि शग्धि स्वस्तय उतैधि पृत्सु नो वृधे
प्रातरग्निः पुरुप्रियो विश स्तवेतातिथिः । विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति
द्विताय मृक्तवाहसे स्वस्य दक्षस्य मंहना । इन्दुं स धत्त आनुषक्स्तोता चित्ते अमर्त्य
तं वो दीर्घायुशोचिषं गिरा हुवे मघोनाम् । अरिष्टो येषां रथो व्यश्वदावन्नीयते
चित्रा वा येषु दीधितिरासन्नुक्था पान्ति ये । स्तीर्णं बर्हिः स्वर्णरे श्रवांसि दधिरे परि
ये मे पञ्चाशतं ददुरश्वानां सधस्तुति । द्युमदग्ने महि श्रवो बृहत्कृधि मघोनां नृवदमृत नृणाम्
अभ्यवस्थाः प्र जायन्ते प्र वव्रेर्वव्रिश्चिकेत । उपस्थे मातुर्वि चष्टे
जुहुरे वि चितयन्तोऽनिमिषं नृम्णं पान्ति । आ दृळ्हां पुरं विविशुः
आ श्वैत्रेयस्य जन्तवो द्युमद्वर्धन्त कृष्टयः । निष्कग्रीवो बृहदुक्थ एना मध्वा न वाजयुः
प्रियं दुग्धं न काम्यमजामि जाम्योः सचा । घर्मो न वाजजठरोऽदब्धः शश्वतो दभः
क्रीळन्नो रश्म आ भुवः सं भस्मना वायुना वेविदानः । ता अस्य सन्धृषजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः
यमग्ने वाजसातम त्वं चिन्मन्यसे रयिम् । तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम्
ये अग्ने नेरयन्ति ते वृद्धा उग्रस्य शवसः । अप द्वेषो अप ह्वरोऽन्यव्रतस्य सश्चिरे
होतारं त्वा वृणीमहेऽग्ने दक्षस्य साधनम् । यज्ञेषु पूर्व्यं गिरा प्रयस्वन्तो हवामहे
इत्था यथा त ऊतये सहसावन्दिवेदिवे । राय ऋताय सुक्रतो गोभिः ष्याम सधमादो वीरैः स्याम सधमादः
मनुष्वत्त्वा नि धीमहि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान्देवयते यज
त्वं हि मानुषे जनेऽग्ने सुप्रीत इध्यसे । स्रुचस्त्वा यन्त्यानुषक्सुजात सर्पिरासुते
त्वां विश्वे सजोषसो देवासो दूतमक्रत । सपर्यन्तस्त्वा कवे यज्ञेषु देवमीळते
देवं वो देवयज्ययाग्निमीळीत मर्त्यः । समिद्धः शुक्र दीदिह्यृतस्य योनिमासदः ससस्य योनिमासदः
प्र विश्वसामन्नत्रिवदर्चा पावकशोचिषे । यो अध्वरेष्वीड्यो होता मन्द्रतमो विशि
न्यग्निं जातवेदसं दधाता देवमृत्विजम् । प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः
चिकित्विन्मनसं त्वा देवं मर्तास ऊतये । वरेण्यस्य तेऽवस इयानासो अमन्महि