सखायस्ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन् । अधूर्षत स्वयमेते वचोभिरृजूयते वृजिनानि ब्रुवन्तः
यस्ते अग्ने नमसा यज्ञमीट्ट ऋतं स पात्यरुषस्य वृष्णः । तस्य क्षयः पृथुरा साधुरेतु प्रसर्स्राणस्य नहुषस्य शेषः
अर्चन्तस्त्वा हवामहेऽर्चन्तः समिधीमहि । अग्ने अर्चन्त ऊतये
अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः । देवस्य द्रविणस्यवः
अग्निर्जुषत नो गिरो होता यो मानुषेष्वा । स यक्षद्दैव्यं जनम्
त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वि तन्वते
त्वामग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् । स नो रास्व सुवीर्यम्
अग्ने नेमिरराँ इव देवाँस्त्वं परिभूरसि । आ राधश्चित्रमृञ्जसे
अग्निं स्तोमेन बोधय समिधानो अमर्त्यम् । हव्या देवेषु नो दधत्
तमध्वरेष्वीळते देवं मर्ता अमर्त्यम् । यजिष्ठं मानुषे जने
तं हि शश्वन्त ईळते स्रुचा देवं घृतश्चुता । अग्निं हव्याय वोळ्हवे
अग्निर्जातो अरोचत घ्नन्दस्यूञ्ज्योतिषा तमः । अविन्दद्गा अपः स्वः
अग्निमीळेन्यं कविं घृतपृष्ठं सपर्यत । वेतु मे शृणवद्धवम्
अग्निं घृतेन वावृधु स्तोमेभिर्विश्वचर्षणिम् । स्वाधीभिर्वचस्युभिः
प्र वेधसे कवये वेद्याय गिरं भरे यशसे पूर्व्याय । घृतप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः
ऋतेन ऋतं धरुणं धारयन्त यज्ञस्य शाके परमे व्योमन् । दिवो धर्मन्धरुणे सेदुषो नॄञ्जातैरजाताँ अभि ये ननक्षुः
अङ्होयुवस्तन्वस्तन्वते वि वयो महद्दुष्टरं पूर्व्याय । स संवतो नवजातस्तुतुर्यात्सिङ्हं न क्रुद्धमभितः परि ष्ठुः
मातेव यद्भरसे पप्रथानो जनंजनं धायसे चक्षसे च । वयोवयो जरसे यद्दधानः परि त्मना विषुरूपो जिगासि
वाजो नु ते शवसस्पात्वन्तमुरुं दोघं धरुणं देव रायः । पदं न तायुर्गुहा दधानो महो राये चितयन्नत्रिमस्पः
बृहद्वयो हि भानवेऽर्चा देवायाग्नये । यं मित्रं न प्रशस्तिभिर्मर्तासो दधिरे पुरः
स हि द्युभिर्जनानां होता दक्षस्य बाह्वोः । वि हव्यमग्निरानुषग्भगो न वारमृण्वति
अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः । विश्वा यस्मिन्तुविष्वणि समर्ये शुष्ममादधुः
अधा ह्यग्न एषां सुवीर्यस्य मंहना । तमिद्यह्वं न रोदसी परि श्रवो बभूवतुः
नू न एहि वार्यमग्ने गृणान आ भर । ये वयं ये च सूरयः स्वस्ति धामहे सचोतैधि पृत्सु नो वृधे
आ यज्ञैर्देव मर्त्य इत्था तव्यांसमूतये । अग्निं कृते स्वध्वरे पूरुरीळीतावसे
अस्य हि स्वयशस्तर आसा विधर्मन्मन्यसे । तं नाकं चित्रशोचिषं मन्द्रं परो मनीषया
अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा । दिवो न यस्य रेतसा बृहच्छोचन्त्यर्चयः
अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ । अधा विश्वासु हव्योऽग्निर्विक्षु प्र शस्यते
नू न इद्धि वार्यमासा सचन्त सूरयः । ऊर्जो नपादभिष्टये पाहि शग्धि स्वस्तय उतैधि पृत्सु नो वृधे
प्रातरग्निः पुरुप्रियो विश स्तवेतातिथिः । विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति