अध स्म यस्यार्चयः सम्यक्संयन्ति धूमिनः । यदीमह त्रितो दिव्युप ध्मातेव धमति शिशीते ध्मातरी यथा
तवाहमग्न ऊतिभिर्मित्रस्य च प्रशस्तिभिः । द्वेषोयुतो न दुरिता तुर्याम मर्त्यानाम्
तं नो अग्ने अभी नरो रयिं सहस्व आ भर । स क्षेपयत्स पोषयद्भुवद्वाजस्य सातय उतैधि पृत्सु नो वृधे
अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो । प्र नो राया परीणसा रत्सि वाजाय पन्थाम्
त्वं नो अग्ने अद्भुत क्रत्वा दक्षस्य मंहना । त्वे असुर्यमारुहत्क्राणा मित्रो न यज्ञियः
त्वं नो अग्न एषां गयं पुष्टिं च वर्धय । ये स्तोमेभिः प्र सूरयो नरो मघान्यानशुः
ये अग्ने चन्द्र ते गिरः शुम्भन्त्यश्वराधसः । शुष्मेभिः शुष्मिणो नरो दिवश्चिद्येषां बृहत्सुकीर्तिर्बोधति त्मना
तव त्ये अग्ने अर्चयो भ्राजन्तो यन्ति धृष्णुया । परिज्मानो न विद्युतः स्वानो रथो न वाजयुः
नू नो अग्न ऊतये सबाधसश्च रातये । अस्माकासश्च सूरयो विश्वा आशास्तरीषणि
त्वं नो अग्ने अङ्गिर स्तुत स्तवान आ भर । होतर्विभ्वासहं रयिं स्तोतृभ्य स्तवसे च न उतैधि पृत्सु नो वृधे
जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे । घृतप्रतीको बृहता दिविस्पृशा द्युमद्वि भाति भरतेभ्यः शुचिः
यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समीधिरे । इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः
असम्मृष्टो जायसे मात्रोः शुचिर्मन्द्रः कविरुदतिष्ठो विवस्वतः । घृतेन त्वावर्धयन्नग्न आहुत धूमस्ते केतुरभवद्दिवि श्रितः
अग्निर्नो यज्ञमुप वेतु साधुयाग्निं नरो वि भरन्ते गृहेगृहे । अग्निर्दूतो अभवद्धव्यवाहनोऽग्निं वृणाना वृणते कविक्रतुम्
तुभ्येदमग्ने मधुमत्तमं वचस्तुभ्यं मनीषा इयमस्तु शं हृदे । त्वां गिरः सिन्धुमिवावनीर्महीरा पृणन्ति शवसा वर्धयन्ति च
त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने । स जायसे मथ्यमानः सहो महत्त्वामाहुः सहसस्पुत्रमङ्गिरः
प्राग्नये बृहते यज्ञियाय ऋतस्य वृष्णे असुराय मन्म । घृतं न यज्ञ आस्ये सुपूतं गिरं भरे वृषभाय प्रतीचीम्
ऋतं चिकित्व ऋतमिच्चिकिद्ध्यृतस्य धारा अनु तृन्धि पूर्वीः । नाहं यातुं सहसा न द्वयेन ऋतं सपाम्यरुषस्य वृष्णः
कया नो अग्न ऋतयन्नृतेन भुवो नवेदा उचथस्य नव्यः । वेदा मे देव ऋतुपा ऋतूनां नाहं पतिं सनितुरस्य रायः
के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त द्युमन्तः । के धासिमग्ने अनृतस्य पान्ति क आसतो वचसः सन्ति गोपाः
सखायस्ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन् । अधूर्षत स्वयमेते वचोभिरृजूयते वृजिनानि ब्रुवन्तः
यस्ते अग्ने नमसा यज्ञमीट्ट ऋतं स पात्यरुषस्य वृष्णः । तस्य क्षयः पृथुरा साधुरेतु प्रसर्स्राणस्य नहुषस्य शेषः
अर्चन्तस्त्वा हवामहेऽर्चन्तः समिधीमहि । अग्ने अर्चन्त ऊतये
अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः । देवस्य द्रविणस्यवः
अग्निर्जुषत नो गिरो होता यो मानुषेष्वा । स यक्षद्दैव्यं जनम्
त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वि तन्वते
त्वामग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् । स नो रास्व सुवीर्यम्
अग्ने नेमिरराँ इव देवाँस्त्वं परिभूरसि । आ राधश्चित्रमृञ्जसे
अग्निं स्तोमेन बोधय समिधानो अमर्त्यम् । हव्या देवेषु नो दधत्
तमध्वरेष्वीळते देवं मर्ता अमर्त्यम् । यजिष्ठं मानुषे जने