तुभ्यं भरन्ति क्षितयो यविष्ठ बलिमग्ने अन्तित ओत दूरात् । आ भन्दिष्ठस्य सुमतिं चिकिद्धि बृहत्ते अग्ने महि शर्म भद्रम्
आद्य रथं भानुमो भानुमन्तमग्ने तिष्ठ यजतेभिः समन्तम् । विद्वान्पथीनामुर्वन्तरिक्षमेह देवान्हविरद्याय वक्षि
अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । गविष्ठिरो नमसा स्तोममग्नौ दिवीव रुक्ममुरुव्यञ्चमश्रेत्
कुमारं माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे । अनीकमस्य न मिनज्जनासः पुरः पश्यन्ति निहितमरतौ
कमेतं त्वं युवते कुमारं पेषी बिभर्षि महिषी जजान । पूर्वीर्हि गर्भः शरदो ववर्धापश्यं जातं यदसूत माता
हिरण्यदन्तं शुचिवर्णमारात्क्षेत्रादपश्यमायुधा मिमानम् । ददानो अस्मा अमृतं विपृक्वत्किं मामनिन्द्राः कृणवन्ननुक्थाः
क्षेत्रादपश्यं सनुतश्चरन्तं सुमद्यूथं न पुरु शोभमानम् । न ता अगृभ्रन्नजनिष्ट हि षः पलिक्नीरिद्युवतयो भवन्ति
के मे मर्यकं वि यवन्त गोभिर्न येषां गोपा अरणश्चिदास । य ईं जगृभुरव ते सृजन्त्वाजाति पश्व उप नश्चिकित्वान्
वसां राजानं वसतिं जनानामरातयो नि दधुर्मर्त्येषु । ब्रह्माण्यत्रेरव तं सृजन्तु निन्दितारो निन्द्यासो भवन्तु
शुनश्चिच्छेपं निदितं सहस्राद्यूपादमुञ्चो अशमिष्ट हि षः । एवास्मदग्ने वि मुमुग्धि पाशान्होतश्चिकित्व इह तू निषद्य
हृणीयमानो अप हि मदैयेः प्र मे देवानां व्रतपा उवाच । इन्द्रो विद्वाँ अनु हि त्वा चचक्ष तेनाहमग्ने अनुशिष्ट आगाम्
वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा । प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे
उत स्वानासो दिवि षन्त्वग्नेस्तिग्मायुधा रक्षसे हन्तवा उ । मदे चिदस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः
एतं ते स्तोमं तुविजात विप्रो रथं न धीरः स्वपा अतक्षम् । यदीदग्ने प्रति त्वं देव हर्याः स्वर्वतीरप एना जयेम
तुविग्रीवो वृषभो वावृधानोऽशत्र्वर्यः समजाति वेदः । इतीममग्निममृता अवोचन्बर्हिष्मते मनवे शर्म यंसद्धविष्मते मनवे शर्म यंसत्
त्वमग्ने वरुणो जायसे यत्त्वं मित्रो भवसि यत्समिद्धः । त्वे विश्वे सहसस्पुत्र देवास्त्वमिन्द्रो दाशुषे मर्त्याय
त्वमर्यमा भवसि यत्कनीनां नाम स्वधावन्गुह्यं बिभर्षि । अञ्जन्ति मित्रं सुधितं न गोभिर्यद्दम्पती समनसा कृणोषि
तव श्रिये मरुतो मर्जयन्त रुद्र यत्ते जनिम चारु चित्रम् । पदं यद्विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनाम्
तव श्रिया सुदृशो देव देवाः पुरू दधाना अमृतं सपन्त । होतारमग्निं मनुषो नि षेदुर्दशस्यन्त उशिजः शंसमायोः
न त्वद्धोता पूर्वो अग्ने यजीयान्न काव्यैः परो अस्ति स्वधावः । विशश्च यस्या अतिथिर्भवासि स यज्ञेन वनवद्देव मर्तान्
वयमग्ने वनुयाम त्वोता वसूयवो हविषा बुध्यमानाः । वयं समर्ये विदथेष्वह्नां वयं राया सहसस्पुत्र मर्तान्
यो न आगो अभ्येनो भरात्यधीदघमघशंसे दधात । जही चिकित्वो अभिशस्तिमेतामग्ने यो नो मर्चयति द्वयेन
त्वामस्या व्युषि देव पूर्वे दूतं कृण्वाना अयजन्त हव्यैः । संस्थे यदग्न ईयसे रयीणां देवो मर्तैर्वसुभिरिध्यमानः
अव स्पृधि पितरं योधि विद्वान्पुत्रो यस्ते सहसः सून ऊहे । कदा चिकित्वो अभि चक्षसे नोऽग्ने कदाँ ऋतचिद्यातयासे
भूरि नाम वन्दमानो दधाति पिता वसो यदि तज्जोषयासे । कुविद्देवस्य सहसा चकानः सुम्नमग्निर्वनते वावृधानः
त्वमङ्ग जरितारं यविष्ठ विश्वान्यग्ने दुरिताति पर्षि । स्तेना अदृश्रन्रिपवो जनासोऽज्ञातकेता वृजिना अभूवन्
इमे यामासस्त्वद्रिगभूवन्वसवे वा तदिदागो अवाचि । नाहायमग्निरभिशस्तये नो न रीषते वावृधानः परा दात्
त्वामग्ने वसुपतिं वसूनामभि प्र मन्दे अध्वरेषु राजन् । त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर्मर्त्यानाम्
हव्यवाळग्निरजरः पिता नो विभुर्विभावा सुदृशीको अस्मे । सुगार्हपत्याः समिषो दिदीह्यस्मद्र्यक्सं मिमीहि श्रवांसि
विशां कविं विश्पतिं मानुषीणां शुचिं पावकं घृतपृष्ठमग्निम् । नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि