स इत्क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते विश्वदानीम् । तस्मै विशः स्वयमेवा नमन्ते यस्मिन्ब्रह्मा राजनि पूर्व एति
अप्रतीतो जयति सं धनानि प्रतिजन्यान्युत या सजन्या । अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तमवन्ति देवाः
इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन्यज्ञे मन्दसाना वृषण्वसू । आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यच्छतम्
बृहस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर्भूत्वस्मे । अविष्टं धियो जिगृतं पुरंधीर्जजस्तमर्यो वनुषामरातीः
इदमु त्यत्पुरुतमं पुरस्ताज्ज्योतिस्तमसो वयुनावदस्थात् । नूनं दिवो दुहितरो विभातीर्गातुं कृणवन्नुषसो जनाय
अस्थुरु चित्रा उषसः पुरस्तान्मिता इव स्वरवोऽध्वरेषु । व्यू व्रजस्य तमसो द्वारोच्छन्तीरव्रञ्छुचयः पावकाः
उच्छन्तीरद्य चितयन्त भोजान्राधोदेयायोषसो मघोनीः । अचित्रे अन्तः पणयः ससन्त्वबुध्यमानास्तमसो विमध्ये
कुवित्स देवीः सनयो नवो वा यामो बभूयादुषसो वो अद्य । येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवदूष
यूयं हि देवीरृतयुग्भिरश्वैः परिप्रयाथ भुवनानि सद्यः । प्रबोधयन्तीरुषसः ससन्तं द्विपाच्चतुष्पाच्चरथाय जीवम्
क्व स्विदासां कतमा पुराणी यया विधाना विदधुरृभूणाम् । शुभं यच्छुभ्रा उषसश्चरन्ति न वि ज्ञायन्ते सदृशीरजुर्याः
ता घा ता भद्रा उषसः पुरासुरभिष्टिद्युम्ना ऋतजातसत्याः । यास्वीजानः शशमान उक्थै स्तुवञ्छंसन्द्रविणं सद्य आप
ता आ चरन्ति समना पुरस्तात्समानतः समना पप्रथानाः । ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते
ता इन्न्वेव समना समानीरमीतवर्णा उषसश्चरन्ति । गूहन्तीरभ्वमसितं रुशद्भिः शुक्रास्तनूभिः शुचयो रुचानाः
रयिं दिवो दुहितरो विभातीः प्रजावन्तं यच्छतास्मासु देवीः । स्योनादा वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम
तद्वो दिवो दुहितरो विभातीरुप ब्रुव उषसो यज्ञकेतुः । वयं स्याम यशसो जनेषु तद्द्यौश्च धत्तां पृथिवी च देवी
प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः । दिवो अदर्शि दुहिता
अश्वेव चित्रारुषी माता गवामृतावरी । सखाभूदश्विनोरुषाः
उत सखास्यश्विनोरुत माता गवामसि । उतोषो वस्व ईशिषे
यावयद्द्वेषसं त्वा चिकित्वित्सूनृतावरि । प्रति स्तोमैरभुत्स्महि
प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः । ओषा अप्रा उरु ज्रयः
आपप्रुषी विभावरि व्यावर्ज्योतिषा तमः । उषो अनु स्वधामव
आ द्यां तनोषि रश्मिभिरान्तरिक्षमुरु प्रियम् । उषः शुक्रेण शोचिषा
तद्देवस्य सवितुर्वार्यं महद्वृणीमहे असुरस्य प्रचेतसः । छर्दिर्येन दाशुषे यच्छति त्मना तन्नो महाँ उदयान्देवो अक्तुभिः
दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिं प्रति मुञ्चते कविः । विचक्षणः प्रथयन्नापृणन्नुर्वजीजनत्सविता सुम्नमुक्थ्यम्
आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे । प्र बाहू अस्राक्सविता सवीमनि निवेशयन्प्रसुवन्नक्तुभिर्जगत्
अदाभ्यो भुवनानि प्रचाकशद्व्रतानि देवः सविताभि रक्षते । प्रास्राग्बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति
त्रिरन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस्त्रीणि रोचना । तिस्रो दिवः पृथिवीस्तिस्र इन्वति त्रिभिर्व्रतैरभि नो रक्षति त्मना
बृहत्सुम्नः प्रसवीता निवेशनो जगत स्थातुरुभयस्य यो वशी । स नो देवः सविता शर्म यच्छत्वस्मे क्षयाय त्रिवरूथमंहसः
आगन्देव ऋतुभिर्वर्धतु क्षयं दधातु नः सविता सुप्रजामिषम् । स नः क्षपाभिरहभिश्च जिन्वतु प्रजावन्तं रयिमस्मे समिन्वतु
अभूद्देवः सविता वन्द्यो नु न इदानीमह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत्