यो अश्वस्य दधिक्राव्णो अकारीत्समिद्धे अग्ना उषसो व्युष्टौ । अनागसं तमदितिः कृणोतु स मित्रेण वरुणेना सजोषाः
दधिक्राव्ण इष ऊर्जो महो यदमन्महि मरुतां नाम भद्रम् । स्वस्तये वरुणं मित्रमग्निं हवामह इन्द्रं वज्रबाहुम्
इन्द्रमिवेदुभये वि ह्वयन्त उदीराणा यज्ञमुपप्रयन्तः । दधिक्रामु सूदनं मर्त्याय ददथुर्मित्रावरुणा नो अश्वम्
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत्
दधिक्राव्ण इदु नु चर्किराम विश्वा इन्मामुषसः सूदयन्तु । अपामग्नेरुषसः सूर्यस्य बृहस्पतेराङ्गिरसस्य जिष्णोः
सत्वा भरिषो गविषो दुवन्यसच्छ्रवस्यादिष उषसस्तुरण्यसत् । सत्यो द्रवो द्रवरः पतंगरो दधिक्रावेषमूर्जं स्वर्जनत्
उत स्मास्य द्रवतस्तुरण्यतः पर्णं न वेरनु वाति प्रगर्धिनः । श्येनस्येव ध्रजतो अङ्कसं परि दधिक्राव्णः सहोर्जा तरित्रतः
उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष आसनि । क्रतुं दधिक्रा अनु संतवीत्वत्पथामङ्कांस्यन्वापनीफणत्
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम्
इन्द्रा को वां वरुणा सुम्नमाप स्तोमो हविष्माँ अमृतो न होता । यो वां हृदि क्रतुमाँ अस्मदुक्तः पस्पर्शदिन्द्रावरुणा नमस्वान्
इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय प्रयस्वान् । स हन्ति वृत्रा समिथेषु शत्रूनवोभिर्वा महद्भिः स प्र शृण्वे
इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नृभ्यः शशमानेभ्यस्ता । यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते
इन्द्रा युवं वरुणा दिद्युमस्मिन्नोजिष्ठमुग्रा नि वधिष्टं वज्रम् । यो नो दुरेवो वृकतिर्दभीतिस्तस्मिन्मिमाथामभिभूत्योजः
इन्द्रा युवं वरुणा भूतमस्या धियः प्रेतारा वृषभेव धेनोः । सा नो दुहीयद्यवसेव गत्वी सहस्रधारा पयसा मही गौः
तोके हिते तनय उर्वरासु सूरो दृशीके वृषणश्च पौंस्ये । इन्द्रा नो अत्र वरुणा स्यातामवोभिर्दस्मा परितक्म्यायाम्
युवामिद्ध्यवसे पूर्व्याय परि प्रभूती गविषः स्वापी । वृणीमहे सख्याय प्रियाय शूरा मंहिष्ठा पितरेव शम्भू
ता वां धियोऽवसे वाजयन्तीराजिं न जग्मुर्युवयूः सुदानू । श्रिये न गाव उप सोममस्थुरिन्द्रं गिरो वरुणं मे मनीषाः
इमा इन्द्रं वरुणं मे मनीषा अग्मन्नुप द्रविणमिच्छमानाः । उपेमस्थुर्जोष्टार इव वस्वो रघ्वीरिव श्रवसो भिक्षमाणाः
अश्व्यस्य त्मना रथ्यस्य पुष्टेर्नित्यस्य रायः पतयः स्याम । ता चक्राणा ऊतिभिर्नव्यसीभिरस्मत्रा रायो नियुतः सचन्ताम्
आ नो बृहन्ता बृहतीभिरूती इन्द्र यातं वरुण वाजसातौ । यद्दिद्यवः पृतनासु प्रक्रीळान्तस्य वां स्याम सनितार आजेः
मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर्विश्वे अमृता यथा नः । क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः
अहं राजा वरुणो मह्यं तान्यसुर्याणि प्रथमा धारयन्त । क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः
अहमिन्द्रो वरुणस्ते महित्वोर्वी गभीरे रजसी सुमेके । त्वष्टेव विश्वा भुवनानि विद्वान्समैरयं रोदसी धारयं च
अहमपो अपिन्वमुक्षमाणा धारयं दिवं सदन ऋतस्य । ऋतेन पुत्रो अदितेरृतावोत त्रिधातु प्रथयद्वि भूम
मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते । कृणोम्याजिं मघवाहमिन्द्र इयर्मि रेणुमभिभूत्योजाः
अहं ता विश्वा चकरं नकिर्मा दैव्यं सहो वरते अप्रतीतम् । यन्मा सोमासो ममदन्यदुक्थोभे भयेते रजसी अपारे
विदुष्टे विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः । त्वं वृत्राणि शृण्विषे जघन्वान्त्वं वृताँ अरिणा इन्द्र सिन्धून्
अस्माकमत्र पितरस्त आसन्सप्त ऋषयो दौर्गहे बध्यमाने । त आयजन्त त्रसदस्युमस्या इन्द्रं न वृत्रतुरमर्धदेवम्
पुरुकुत्सानी हि वामदाशद्धव्येभिरिन्द्रावरुणा नमोभिः । अथा राजानं त्रसदस्युमस्या वृत्रहणं ददथुरर्धदेवम्
राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः । तां धेनुमिन्द्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीम्