उप नो वाजा अध्वरमृभुक्षा देवा यात पथिभिर्देवयानैः । यथा यज्ञं मनुषो विक्ष्वासु दधिध्वे रण्वाः सुदिनेष्वह्नाम्
ते वो हृदे मनसे सन्तु यज्ञा जुष्टासो अद्य घृतनिर्णिजो गुः । प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः
त्र्युदायं देवहितं यथा व स्तोमो वाजा ऋभुक्षणो ददे वः । जुह्वे मनुष्वदुपरासु विक्षु युष्मे सचा बृहद्दिवेषु सोमम्
पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः । इन्द्रस्य सूनो शवसो नपातोऽनु वश्चेत्यग्रियं मदाय
ऋभुमृभुक्षणो रयिं वाजे वाजिन्तमं युजम् । इन्द्रस्वन्तं हवामहे सदासातममश्विनम्
सेदृभवो यमवथ यूयमिन्द्रश्च मर्त्यम् । स धीभिरस्तु सनिता मेधसाता सो अर्वता
वि नो वाजा ऋभुक्षणः पथश्चितन यष्टवे । अस्मभ्यं सूरय स्तुता विश्वा आशास्तरीषणि
तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् । समश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये
उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस्त्रसदस्युर्नितोशे । क्षेत्रासां ददथुरुर्वरासां घनं दस्युभ्यो अभिभूतिमुग्रम्
उत वाजिनं पुरुनिष्षिध्वानं दधिक्रामु ददथुर्विश्वकृष्टिम् । ऋजिप्यं श्येनं प्रुषितप्सुमाशुं चर्कृत्यमर्यो नृपतिं न शूरम्
यं सीमनु प्रवतेव द्रवन्तं विश्वः पूरुर्मदति हर्षमाणः । पड्भिर्गृध्यन्तं मेधयुं न शूरं रथतुरं वातमिव ध्रजन्तम्
यः स्मारुन्धानो गध्या समत्सु सनुतरश्चरति गोषु गच्छन् । आविरृजीको विदथा निचिक्यत्तिरो अरतिं पर्याप आयोः
उत स्मैनं वस्त्रमथिं न तायुमनु क्रोशन्ति क्षितयो भरेषु । नीचायमानं जसुरिं न श्येनं श्रवश्चाच्छा पशुमच्च यूथम्
उत स्मासु प्रथमः सरिष्यन्नि वेवेति श्रेणिभी रथानाम् । स्रजं कृण्वानो जन्यो न शुभ्वा रेणुं रेरिहत्किरणं ददश्वान्
उत स्य वाजी सहुरिरृतावा शुश्रूषमाणस्तन्वा समर्ये । तुरं यतीषु तुरयन्नृजिप्योऽधि भ्रुवोः किरते रेणुमृञ्जन्
उत स्मास्य तन्यतोरिव द्योरृघायतो अभियुजो भयन्ते । यदा सहस्रमभि षीमयोधीद्दुर्वर्तुः स्मा भवति भीम ऋञ्जन्
उत स्मास्य पनयन्ति जना जूतिं कृष्टिप्रो अभिभूतिमाशोः । उतैनमाहुः समिथे वियन्तः परा दधिक्रा असरत्सहस्रैः
आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान । सहस्रसाः शतसा वाज्यर्वा पृणक्तु मध्वा समिमा वचांसि
आशुं दधिक्रां तमु नु ष्टवाम दिवस्पृथिव्या उत चर्किराम । उच्छन्तीर्मामुषसः सूदयन्त्वति विश्वानि दुरितानि पर्षन्
महश्चर्कर्म्यर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य वृष्णः । यं पूरुभ्यो दीदिवांसं नाग्निं ददथुर्मित्रावरुणा ततुरिम्
यो अश्वस्य दधिक्राव्णो अकारीत्समिद्धे अग्ना उषसो व्युष्टौ । अनागसं तमदितिः कृणोतु स मित्रेण वरुणेना सजोषाः
दधिक्राव्ण इष ऊर्जो महो यदमन्महि मरुतां नाम भद्रम् । स्वस्तये वरुणं मित्रमग्निं हवामह इन्द्रं वज्रबाहुम्
इन्द्रमिवेदुभये वि ह्वयन्त उदीराणा यज्ञमुपप्रयन्तः । दधिक्रामु सूदनं मर्त्याय ददथुर्मित्रावरुणा नो अश्वम्
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत्
दधिक्राव्ण इदु नु चर्किराम विश्वा इन्मामुषसः सूदयन्तु । अपामग्नेरुषसः सूर्यस्य बृहस्पतेराङ्गिरसस्य जिष्णोः
सत्वा भरिषो गविषो दुवन्यसच्छ्रवस्यादिष उषसस्तुरण्यसत् । सत्यो द्रवो द्रवरः पतंगरो दधिक्रावेषमूर्जं स्वर्जनत्
उत स्मास्य द्रवतस्तुरण्यतः पर्णं न वेरनु वाति प्रगर्धिनः । श्येनस्येव ध्रजतो अङ्कसं परि दधिक्राव्णः सहोर्जा तरित्रतः
उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष आसनि । क्रतुं दधिक्रा अनु संतवीत्वत्पथामङ्कांस्यन्वापनीफणत्
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम्
इन्द्रा को वां वरुणा सुम्नमाप स्तोमो हविष्माँ अमृतो न होता । यो वां हृदि क्रतुमाँ अस्मदुक्तः पस्पर्शदिन्द्रावरुणा नमस्वान्