अस्माकं त्वा मतीनामा स्तोम इन्द्र यच्छतु । अर्वागा वर्तया हरी
पुरोळाशं च नो घसो जोषयासे गिरश्च नः । वधूयुरिव योषणाम्
सहस्रं व्यतीनां युक्तानामिन्द्रमीमहे । शतं सोमस्य खार्यः
सहस्रा ते शता वयं गवामा च्यावयामसि । अस्मत्रा राध एतु ते
दश ते कलशानां हिरण्यानामधीमहि । भूरिदा असि वृत्रहन्
भूरिदा भूरि देहि नो मा दभ्रं भूर्या भर । भूरि घेदिन्द्र दित्ससि
भूरिदा ह्यसि श्रुतः पुरुत्रा शूर वृत्रहन् । आ नो भजस्व राधसि
प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात् । माभ्यां गा अनु शिश्रथः
कनीनकेव विद्रधे नवे द्रुपदे अर्भके । बभ्रू यामेषु शोभेते
अरं म उस्रयाम्णेऽरमनुस्रयाम्णे । बभ्रू यामेष्वस्रिधा
प्र ऋभुभ्यो दूतमिव वाचमिष्य उपस्तिरे श्वैतरीं धेनुमीळे । ये वातजूतास्तरणिभिरेवैः परि द्यां सद्यो अपसो बभूवुः
यदारमक्रन्नृभवः पितृभ्यां परिविष्टी वेषणा दंसनाभिः । आदिद्देवानामुप सख्यमायन्धीरासः पुष्टिमवहन्मनायै
पुनर्ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना । ते वाजो विभ्वाँ ऋभुरिन्द्रवन्तो मधुप्सरसो नोऽवन्तु यज्ञम्
यत्संवत्समृभवो गामरक्षन्यत्संवत्समृभवो मा अपिंशन् । यत्संवत्समभरन्भासो अस्यास्ताभिः शमीभिरमृतत्वमाशुः
ज्येष्ठ आह चमसा द्वा करेति कनीयान्त्रीन्कृणवामेत्याह । कनिष्ठ आह चतुरस्करेति त्वष्ट ऋभवस्तत्पनयद्वचो वः
सत्यमूचुर्नर एवा हि चक्रुरनु स्वधामृभवो जग्मुरेताम् । विभ्राजमानाँश्चमसाँ अहेवावेनत्त्वष्टा चतुरो ददृश्वान्
द्वादश द्यून्यदगोह्यस्यातिथ्ये रणन्नृभवः ससन्तः । सुक्षेत्राकृण्वन्ननयन्त सिन्धून्धन्वातिष्ठन्नोषधीर्निम्नमापः
रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम् । त आ तक्षन्त्वृभवो रयिं नः स्ववसः स्वपसः सुहस्ताः
अपो ह्येषामजुषन्त देवा अभि क्रत्वा मनसा दीध्यानाः । वाजो देवानामभवत्सुकर्मेन्द्रस्य ऋभुक्षा वरुणस्य विभ्वा
ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा । ते रायस्पोषं द्रविणान्यस्मे धत्त ऋभवः क्षेमयन्तो न मित्रम्
इदाह्नः पीतिमुत वो मदं धुर्न ऋते श्रान्तस्य सख्याय देवाः । ते नूनमस्मे ऋभवो वसूनि तृतीये अस्मिन्सवने दधात
ऋभुर्विभ्वा वाज इन्द्रो नो अच्छेमं यज्ञं रत्नधेयोप यात । इदा हि वो धिषणा देव्यह्नामधात्पीतिं सं मदा अग्मता वः
विदानासो जन्मनो वाजरत्ना उत ऋतुभिरृभवो मादयध्वम् । सं वो मदा अग्मत सं पुरंधिः सुवीरामस्मे रयिमेरयध्वम्
अयं वो यज्ञ ऋभवोऽकारि यमा मनुष्वत्प्रदिवो दधिध्वे । प्र वोऽच्छा जुजुषाणासो अस्थुरभूत विश्वे अग्रियोत वाजाः
अभूदु वो विधते रत्नधेयमिदा नरो दाशुषे मर्त्याय । पिबत वाजा ऋभवो ददे वो महि तृतीयं सवनं मदाय
आ वाजा यातोप न ऋभुक्षा महो नरो द्रविणसो गृणानाः । आ वः पीतयोऽभिपित्वे अह्नामिमा अस्तं नवस्व इव ग्मन्
आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः । सजोषसः सूरयो यस्य च स्थ मध्वः पात रत्नधा इन्द्रवन्तः
सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः । अग्रेपाभिरृतुपाभिः सजोषा ग्नास्पत्नीभी रत्नधाभिः सजोषाः
सजोषस आदित्यैर्मादयध्वं सजोषस ऋभवः पर्वतेभिः । सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः
ये अश्विना ये पितरा य ऊती धेनुं ततक्षुरृभवो ये अश्वा । ये अंसत्रा य ऋधग्रोदसी ये विभ्वो नरः स्वपत्यानि चक्रुः