परायतीं मातरमन्वचष्ट न नानु गान्यनु नू गमानि । त्वष्टुर्गृहे अपिबत्सोममिन्द्रः शतधन्यं चम्वोः सुतस्य
किं स ऋधक्कृणवद्यं सहस्रं मासो जभार शरदश्च पूर्वीः । नही न्वस्य प्रतिमानमस्त्यन्तर्जातेषूत ये जनित्वाः
अवद्यमिव मन्यमाना गुहाकरिन्द्रं माता वीर्येणा न्यृष्टम् । अथोदस्थात्स्वयमत्कं वसान आ रोदसी अपृणाज्जायमानः
एता अर्षन्त्यललाभवन्तीरृतावरीरिव संक्रोशमानाः । एता वि पृच्छ किमिदं भनन्ति कमापो अद्रिं परिधिं रुजन्ति
किमु ष्विदस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः । ममैतान्पुत्रो महता वधेन वृत्रं जघन्वाँ असृजद्वि सिन्धून्
ममच्चन त्वा युवतिः परास ममच्चन त्वा कुषवा जगार । ममच्चिदापः शिशवे ममृड्युर्ममच्चिदिन्द्रः सहसोदतिष्ठत्
ममच्चन ते मघवन्व्यंसो निविविध्वाँ अप हनू जघान । अधा निविद्ध उत्तरो बभूवाञ्छिरो दासस्य सं पिणग्वधेन
गृष्टिः ससूव स्थविरं तवागामनाधृष्यं वृषभं तुम्रमिन्द्रम् । अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानम्
उत माता महिषमन्ववेनदमी त्वा जहति पुत्र देवाः । अथाब्रवीद्वृत्रमिन्द्रो हनिष्यन्सखे विष्णो वितरं वि क्रमस्व
कस्ते मातरं विधवामचक्रच्छयुं कस्त्वामजिघांसच्चरन्तम् । कस्ते देवो अधि मार्डीक आसीद्यत्प्राक्षिणाः पितरं पादगृह्य
अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम् । अपश्यं जायाममहीयमानामधा मे श्येनो मध्वा जभार
एवा त्वामिन्द्र वज्रिन्नत्र विश्वे देवासः सुहवास ऊमाः । महामुभे रोदसी वृद्धमृष्वं निरेकमिद्वृणते वृत्रहत्ये
अवासृजन्त जिव्रयो न देवा भुवः सम्राळिन्द्र सत्ययोनिः । अहन्नहिं परिशयानमर्णः प्र वर्तनीररदो विश्वधेनाः
अतृप्णुवन्तं वियतमबुध्यमबुध्यमानं सुषुपाणमिन्द्र । सप्त प्रति प्रवत आशयानमहिं वज्रेण वि रिणा अपर्वन्
अक्षोदयच्छवसा क्षाम बुध्नं वार्ण वातस्तविषीभिरिन्द्रः । दृळ्हान्यौभ्नादुशमान ओजोऽवाभिनत्ककुभः पर्वतानाम्
अभि प्र दद्रुर्जनयो न गर्भं रथा इव प्र ययुः साकमद्रयः । अतर्पयो विसृत उब्ज ऊर्मीन्त्वं वृताँ अरिणा इन्द्र सिन्धून्
त्वं महीमवनिं विश्वधेनां तुर्वीतये वय्याय क्षरन्तीम् । अरमयो नमसैजदर्णः सुतरणाँ अकृणोरिन्द्र सिन्धून्
प्राग्रुवो नभन्वो न वक्वा ध्वस्रा अपिन्वद्युवतीरृतज्ञाः । धन्वान्यज्राँ अपृणक्तृषाणाँ अधोगिन्द्र स्तर्यो दंसुपत्नीः
पूर्वीरुषसः शरदश्च गूर्ता वृत्रं जघन्वाँ असृजद्वि सिन्धून् । परिष्ठिता अतृणद्बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या
वम्रीभिः पुत्रमग्रुवो अदानं निवेशनाद्धरिव आ जभर्थ । व्यन्धो अख्यदहिमाददानो निर्भूदुखच्छित्समरन्त पर्व
प्र ते पूर्वाणि करणानि विप्राविद्वाँ आह विदुषे करांसि । यथायथा वृष्ण्यानि स्वगूर्तापांसि राजन्नर्याविवेषीः
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः
आ न इन्द्रो दूरादा न आसादभिष्टिकृदवसे यासदुग्रः । ओजिष्ठेभिर्नृपतिर्वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून्
आ न इन्द्रो हरिभिर्यात्वच्छार्वाचीनोऽवसे राधसे च । तिष्ठाति वज्री मघवा विरप्शीमं यज्ञमनु नो वाजसातौ
इमं यज्ञं त्वमस्माकमिन्द्र पुरो दधत्सनिष्यसि क्रतुं नः । श्वघ्नीव वज्रिन्सनये धनानां त्वया वयमर्य आजिं जयेम
उशन्नु षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः । पा इन्द्र प्रतिभृतस्य मध्वः समन्धसा ममदः पृष्ठ्येन
वि यो ररप्श ऋषिभिर्नवेभिर्वृक्षो न पक्वः सृण्यो न जेता । मर्यो न योषामभि मन्यमानोऽच्छा विवक्मि पुरुहूतमिन्द्रम्
गिरिर्न यः स्वतवाँ ऋष्व इन्द्रः सनादेव सहसे जात उग्रः । आदर्ता वज्रं स्थविरं न भीम उद्नेव कोशं वसुना न्यृष्टम्
न यस्य वर्ता जनुषा न्वस्ति न राधस आमरीता मघस्य । उद्वावृषाणस्तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः
ईक्षे रायः क्षयस्य चर्षणीनामुत व्रजमपवर्तासि गोनाम् । शिक्षानरः समिथेषु प्रहावान्वस्वो राशिमभिनेतासि भूरिम्