सुवीरस्ते जनिता मन्यत द्यौरिन्द्रस्य कर्ता स्वपस्तमो भूत् । य ईं जजान स्वर्यं सुवज्रमनपच्युतं सदसो न भूम
य एक इच्च्यावयति प्र भूमा राजा कृष्टीनां पुरुहूत इन्द्रः । सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः
सत्रा सोमा अभवन्नस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः । सत्राभवो वसुपतिर्वसूनां दत्रे विश्वा अधिथा इन्द्र कृष्टीः
त्वमध प्रथमं जायमानोऽमे विश्वा अधिथा इन्द्र कृष्टीः । त्वं प्रति प्रवत आशयानमहिं वज्रेण मघवन्वि वृश्चः
सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृषभं सुवज्रम् । हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः
अयं वृतश्चातयते समीचीर्य आजिषु मघवा शृण्व एकः । अयं वाजं भरति यं सनोत्यस्य प्रियासः सख्ये स्याम
अयं शृण्वे अध जयन्नुत घ्नन्नयमुत प्र कृणुते युधा गाः । यदा सत्यं कृणुते मन्युमिन्द्रो विश्वं दृळ्हं भयत एजदस्मात्
समिन्द्रो गा अजयत्सं हिरण्या समश्विया मघवा यो ह पूर्वीः । एभिर्नृभिर्नृतमो अस्य शाकै रायो विभक्ता सम्भरश्च वस्वः
कियत्स्विदिन्द्रो अध्येति मातुः कियत्पितुर्जनितुर्यो जजान । यो अस्य शुष्मं मुहुकैरियर्ति वातो न जूत स्तनयद्भिरभ्रैः
क्षियन्तं त्वमक्षियन्तं कृणोतीयर्ति रेणुं मघवा समोहम् । विभञ्जनुरशनिमाँ इव द्यौरुत स्तोतारं मघवा वसौ धात्
अयं चक्रमिषणत्सूर्यस्य न्येतशं रीरमत्ससृमाणम् । आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य योनौ
असिक्न्यां यजमानो न होता
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः । जनीयन्तो जनिदामक्षितोतिमा च्यावयामोऽवते न कोशम्
त्राता नो बोधि ददृशान आपिरभिख्याता मर्डिता सोम्यानाम् । सखा पिता पितृतमः पितॄणां कर्तेमु लोकमुशते वयोधाः
सखीयतामविता बोधि सखा गृणान इन्द्र स्तुवते वयो धाः । वयं ह्या ते चकृमा सबाध आभिः शमीभिर्महयन्त इन्द्र
स्तुत इन्द्रो मघवा यद्ध वृत्रा भूरीण्येको अप्रतीनि हन्ति । अस्य प्रियो जरिता यस्य शर्मन्नकिर्देवा वारयन्ते न मर्ताः
एवा न इन्द्रो मघवा विरप्शी करत्सत्या चर्षणीधृदनर्वा । त्वं राजा जनुषां धेह्यस्मे अधि श्रवो माहिनं यज्जरित्रे
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः
अयं पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे । अतश्चिदा जनिषीष्ट प्रवृद्धो मा मातरममुया पत्तवे कः
नाहमतो निरया दुर्गहैतत्तिरश्चता पार्श्वान्निर्गमाणि । बहूनि मे अकृता कर्त्वानि युध्यै त्वेन सं त्वेन पृच्छै
परायतीं मातरमन्वचष्ट न नानु गान्यनु नू गमानि । त्वष्टुर्गृहे अपिबत्सोममिन्द्रः शतधन्यं चम्वोः सुतस्य
किं स ऋधक्कृणवद्यं सहस्रं मासो जभार शरदश्च पूर्वीः । नही न्वस्य प्रतिमानमस्त्यन्तर्जातेषूत ये जनित्वाः
अवद्यमिव मन्यमाना गुहाकरिन्द्रं माता वीर्येणा न्यृष्टम् । अथोदस्थात्स्वयमत्कं वसान आ रोदसी अपृणाज्जायमानः
एता अर्षन्त्यललाभवन्तीरृतावरीरिव संक्रोशमानाः । एता वि पृच्छ किमिदं भनन्ति कमापो अद्रिं परिधिं रुजन्ति
किमु ष्विदस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः । ममैतान्पुत्रो महता वधेन वृत्रं जघन्वाँ असृजद्वि सिन्धून्
ममच्चन त्वा युवतिः परास ममच्चन त्वा कुषवा जगार । ममच्चिदापः शिशवे ममृड्युर्ममच्चिदिन्द्रः सहसोदतिष्ठत्
ममच्चन ते मघवन्व्यंसो निविविध्वाँ अप हनू जघान । अधा निविद्ध उत्तरो बभूवाञ्छिरो दासस्य सं पिणग्वधेन
गृष्टिः ससूव स्थविरं तवागामनाधृष्यं वृषभं तुम्रमिन्द्रम् । अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानम्
उत माता महिषमन्ववेनदमी त्वा जहति पुत्र देवाः । अथाब्रवीद्वृत्रमिन्द्रो हनिष्यन्सखे विष्णो वितरं वि क्रमस्व
कस्ते मातरं विधवामचक्रच्छयुं कस्त्वामजिघांसच्चरन्तम् । कस्ते देवो अधि मार्डीक आसीद्यत्प्राक्षिणाः पितरं पादगृह्य