अस्य घा वीर ईवतोऽग्नेरीशीत मर्त्यः । तिग्मजम्भस्य मीळ्हुषः
तमर्वन्तं न सानसिमरुषं न दिवः शिशुम् । मर्मृज्यन्ते दिवेदिवे
बोधद्यन्मा हरिभ्यां कुमारः साहदेव्यः । अच्छा न हूत उदरम्
उत त्या यजता हरी कुमारात्साहदेव्यात् । प्रयता सद्य आ ददे
एष वां देवावश्विना कुमारः साहदेव्यः । दीर्घायुरस्तु सोमकः
तं युवं देवावश्विना कुमारं साहदेव्यम् । दीर्घायुषं कृणोतन
आ सत्यो यातु मघवाँ ऋजीषी द्रवन्त्वस्य हरय उप नः । तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः
अव स्य शूराध्वनो नान्तेऽस्मिन्नो अद्य सवने मन्दध्यै । शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म
कविर्न निण्यं विदथानि साधन्वृषा यत्सेकं विपिपानो अर्चात् । दिव इत्था जीजनत्सप्त कारूनह्ना चिच्चक्रुर्वयुना गृणन्तः
स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः । अन्धा तमांसि दुधिता विचक्षे नृभ्यश्चकार नृतमो अभिष्टौ
ववक्ष इन्द्रो अमितमृजीष्युभे आ पप्रौ रोदसी महित्वा । अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव
विश्वानि शक्रो नर्याणि विद्वानपो रिरेच सखिभिर्निकामैः । अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमन्तमुशिजो वि वव्रुः
अपो वृत्रं वव्रिवांसं पराहन्प्रावत्ते वज्रं पृथिवी सचेताः । प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवञ्छवसा शूर धृष्णो
अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते । स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्नङ्गिरोभिर्गृणानः
अच्छा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन्नाधमानम् । ऊतिभिस्तमिषणो द्युम्नहूतौ नि मायावानब्रह्मा दस्युरर्त
आ दस्युघ्ना मनसा याह्यस्तं भुवत्ते कुत्सः सख्ये निकामः । स्वे योनौ नि षदतं सरूपा वि वां चिकित्सदृतचिद्ध नारी
यासि कुत्सेन सरथमवस्युस्तोदो वातस्य हर्योरीशानः । ऋज्रा वाजं न गध्यं युयूषन्कविर्यदहन्पार्याय भूषात्
कुत्साय शुष्णमशुषं नि बर्हीः प्रपित्वे अह्नः कुयवं सहस्रा । सद्यो दस्यून्प्र मृण कुत्स्येन प्र सूरश्चक्रं वृहतादभीके
त्वं पिप्रुं मृगयं शूशुवांसमृजिश्वने वैदथिनाय रन्धीः । पञ्चाशत्कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः
सूर उपाके तन्वं दधानो वि यत्ते चेत्यमृतस्य वर्पः । मृगो न हस्ती तविषीमुषाणः सिंहो न भीम आयुधानि बिभ्रत्
इन्द्रं कामा वसूयन्तो अग्मन्स्वर्मीळ्हे न सवने चकानाः । श्रवस्यवः शशमानास उक्थैरोको न रण्वा सुदृशीव पुष्टिः
तमिद्व इन्द्रं सुहवं हुवेम यस्ता चकार नर्या पुरूणि । यो मावते जरित्रे गध्यं चिन्मक्षू वाजं भरति स्पार्हराधाः
तिग्मा यदन्तरशनिः पताति कस्मिञ्चिच्छूर मुहुके जनानाम् । घोरा यदर्य समृतिर्भवात्यध स्मा नस्तन्वो बोधि गोपाः
भुवोऽविता वामदेवस्य धीनां भुवः सखावृको वाजसातौ । त्वामनु प्रमतिमा जगन्मोरुशंसो जरित्रे विश्वध स्याः
एभिर्नृभिरिन्द्र त्वायुभिष्ट्वा मघवद्भिर्मघवन्विश्व आजौ । द्यावो न द्युम्नैरभि सन्तो अर्यः क्षपो मदेम शरदश्च पूर्वीः
एवेदिन्द्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न रथम् । नू चिद्यथा नः सख्या वियोषदसन्न उग्रोऽविता तनूपाः
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः । अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः
त्वं महाँ इन्द्र तुभ्यं ह क्षा अनु क्षत्रं मंहना मन्यत द्यौः । त्वं वृत्रं शवसा जघन्वान्त्सृजः सिन्धूँरहिना जग्रसानान्
तव त्विषो जनिमन्रेजत द्यौ रेजद्भूमिर्भियसा स्वस्य मन्योः । ऋघायन्त सुभ्वः पर्वतास आर्दन्धन्वानि सरयन्त आपः
भिनद्गिरिं शवसा वज्रमिष्णन्नाविष्कृण्वानः सहसान ओजः । वधीद्वृत्रं वज्रेण मन्दसानः सरन्नापो जवसा हतवृष्णीः