अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न । कया याति स्वधया को ददर्श दिवः स्कम्भः समृतः पाति नाकम्
प्रत्यग्निरुषसो जातवेदा अख्यद्देवो रोचमाना महोभिः । आ नासत्योरुगाया रथेनेमं यज्ञमुप नो यातमच्छ
ऊर्ध्वं केतुं सविता देवो अश्रेज्ज्योतिर्विश्वस्मै भुवनाय कृण्वन् । आप्रा द्यावापृथिवी अन्तरिक्षं वि सूर्यो रश्मिभिश्चेकितानः
आवहन्त्यरुणीर्ज्योतिषागान्मही चित्रा रश्मिभिश्चेकिताना । प्रबोधयन्ती सुविताय देव्युषा ईयते सुयुजा रथेन
आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो व्युष्टौ । इमे हि वां मधुपेयाय सोमा अस्मिन्यज्ञे वृषणा मादयेथाम्
अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न । कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम्
अग्निर्होता नो अध्वरे वाजी सन्परि णीयते । देवो देवेषु यज्ञियः
परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव । आ देवेषु प्रयो दधत्
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे
अयं यः सृञ्जये पुरो दैववाते समिध्यते । द्युमाँ अमित्रदम्भनः
अस्य घा वीर ईवतोऽग्नेरीशीत मर्त्यः । तिग्मजम्भस्य मीळ्हुषः
तमर्वन्तं न सानसिमरुषं न दिवः शिशुम् । मर्मृज्यन्ते दिवेदिवे
बोधद्यन्मा हरिभ्यां कुमारः साहदेव्यः । अच्छा न हूत उदरम्
उत त्या यजता हरी कुमारात्साहदेव्यात् । प्रयता सद्य आ ददे
एष वां देवावश्विना कुमारः साहदेव्यः । दीर्घायुरस्तु सोमकः
तं युवं देवावश्विना कुमारं साहदेव्यम् । दीर्घायुषं कृणोतन
आ सत्यो यातु मघवाँ ऋजीषी द्रवन्त्वस्य हरय उप नः । तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः
अव स्य शूराध्वनो नान्तेऽस्मिन्नो अद्य सवने मन्दध्यै । शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म
कविर्न निण्यं विदथानि साधन्वृषा यत्सेकं विपिपानो अर्चात् । दिव इत्था जीजनत्सप्त कारूनह्ना चिच्चक्रुर्वयुना गृणन्तः
स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः । अन्धा तमांसि दुधिता विचक्षे नृभ्यश्चकार नृतमो अभिष्टौ
ववक्ष इन्द्रो अमितमृजीष्युभे आ पप्रौ रोदसी महित्वा । अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव
विश्वानि शक्रो नर्याणि विद्वानपो रिरेच सखिभिर्निकामैः । अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमन्तमुशिजो वि वव्रुः
अपो वृत्रं वव्रिवांसं पराहन्प्रावत्ते वज्रं पृथिवी सचेताः । प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवञ्छवसा शूर धृष्णो
अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते । स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्नङ्गिरोभिर्गृणानः
अच्छा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन्नाधमानम् । ऊतिभिस्तमिषणो द्युम्नहूतौ नि मायावानब्रह्मा दस्युरर्त
आ दस्युघ्ना मनसा याह्यस्तं भुवत्ते कुत्सः सख्ये निकामः । स्वे योनौ नि षदतं सरूपा वि वां चिकित्सदृतचिद्ध नारी
यासि कुत्सेन सरथमवस्युस्तोदो वातस्य हर्योरीशानः । ऋज्रा वाजं न गध्यं युयूषन्कविर्यदहन्पार्याय भूषात्
कुत्साय शुष्णमशुषं नि बर्हीः प्रपित्वे अह्नः कुयवं सहस्रा । सद्यो दस्यून्प्र मृण कुत्स्येन प्र सूरश्चक्रं वृहतादभीके
त्वं पिप्रुं मृगयं शूशुवांसमृजिश्वने वैदथिनाय रन्धीः । पञ्चाशत्कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः
सूर उपाके तन्वं दधानो वि यत्ते चेत्यमृतस्य वर्पः । मृगो न हस्ती तविषीमुषाणः सिंहो न भीम आयुधानि बिभ्रत्