यस्त्वामग्न इनधते यतस्रुक्त्रिस्ते अन्नं कृणवत्सस्मिन्नहन् । स सु द्युम्नैरभ्यस्तु प्रसक्षत्तव क्रत्वा जातवेदश्चिकित्वान्
इध्मं यस्ते जभरच्छश्रमाणो महो अग्ने अनीकमा सपर्यन् । स इधानः प्रति दोषामुषासं पुष्यन्रयिं सचते घ्नन्नमित्रान्
अग्निरीशे बृहतः क्षत्रियस्याग्निर्वाजस्य परमस्य रायः । दधाति रत्नं विधते यविष्ठो व्यानुषङ्मर्त्याय स्वधावान्
यच्चिद्धि ते पुरुषत्रा यविष्ठाचित्तिभिश्चकृमा कच्चिदागः । कृधी ष्वस्माँ अदितेरनागान्व्येनांसि शिश्रथो विष्वगग्ने
महश्चिदग्न एनसो अभीक ऊर्वाद्देवानामुत मर्त्यानाम् । मा ते सखायः सदमिद्रिषाम यच्छा तोकाय तनयाय शं योः
यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः । एवो ष्वस्मन्मुञ्चता व्यंहः प्र तार्यग्ने प्रतरं न आयुः
प्रत्यग्निरुषसामग्रमख्यद्विभातीनां सुमना रत्नधेयम् । यातमश्विना सुकृतो दुरोणमुत्सूर्यो ज्योतिषा देव एति
ऊर्ध्वं भानुं सविता देवो अश्रेद्द्रप्सं दविध्वद्गविषो न सत्वा । अनु व्रतं वरुणो यन्ति मित्रो यत्सूर्यं दिव्यारोहयन्ति
यं सीमकृण्वन्तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो अर्थम् । तं सूर्यं हरितः सप्त यह्वी स्पशं विश्वस्य जगतो वहन्ति
वहिष्ठेभिर्विहरन्यासि तन्तुमवव्ययन्नसितं देव वस्म । दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस्तमो अप्स्वन्तः
अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न । कया याति स्वधया को ददर्श दिवः स्कम्भः समृतः पाति नाकम्
प्रत्यग्निरुषसो जातवेदा अख्यद्देवो रोचमाना महोभिः । आ नासत्योरुगाया रथेनेमं यज्ञमुप नो यातमच्छ
ऊर्ध्वं केतुं सविता देवो अश्रेज्ज्योतिर्विश्वस्मै भुवनाय कृण्वन् । आप्रा द्यावापृथिवी अन्तरिक्षं वि सूर्यो रश्मिभिश्चेकितानः
आवहन्त्यरुणीर्ज्योतिषागान्मही चित्रा रश्मिभिश्चेकिताना । प्रबोधयन्ती सुविताय देव्युषा ईयते सुयुजा रथेन
आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो व्युष्टौ । इमे हि वां मधुपेयाय सोमा अस्मिन्यज्ञे वृषणा मादयेथाम्
अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न । कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम्
अग्निर्होता नो अध्वरे वाजी सन्परि णीयते । देवो देवेषु यज्ञियः
परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव । आ देवेषु प्रयो दधत्
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे
अयं यः सृञ्जये पुरो दैववाते समिध्यते । द्युमाँ अमित्रदम्भनः
अस्य घा वीर ईवतोऽग्नेरीशीत मर्त्यः । तिग्मजम्भस्य मीळ्हुषः
तमर्वन्तं न सानसिमरुषं न दिवः शिशुम् । मर्मृज्यन्ते दिवेदिवे
बोधद्यन्मा हरिभ्यां कुमारः साहदेव्यः । अच्छा न हूत उदरम्
उत त्या यजता हरी कुमारात्साहदेव्यात् । प्रयता सद्य आ ददे
एष वां देवावश्विना कुमारः साहदेव्यः । दीर्घायुरस्तु सोमकः
तं युवं देवावश्विना कुमारं साहदेव्यम् । दीर्घायुषं कृणोतन
आ सत्यो यातु मघवाँ ऋजीषी द्रवन्त्वस्य हरय उप नः । तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः
अव स्य शूराध्वनो नान्तेऽस्मिन्नो अद्य सवने मन्दध्यै । शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म
कविर्न निण्यं विदथानि साधन्वृषा यत्सेकं विपिपानो अर्चात् । दिव इत्था जीजनत्सप्त कारूनह्ना चिच्चक्रुर्वयुना गृणन्तः
स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः । अन्धा तमांसि दुधिता विचक्षे नृभ्यश्चकार नृतमो अभिष्टौ