दूतं वो विश्ववेदसं हव्यवाहममर्त्यम् । यजिष्ठमृञ्जसे गिरा
स हि वेदा वसुधितिं महाँ आरोधनं दिवः । स देवाँ एह वक्षति
स वेद देव आनमं देवाँ ऋतायते दमे । दाति प्रियाणि चिद्वसु
स होता सेदु दूत्यं चिकित्वाँ अन्तरीयते । विद्वाँ आरोधनं दिवः
ते स्याम ये अग्नये ददाशुर्हव्यदातिभिः । य ईं पुष्यन्त इन्धते
ते राया ते सुवीर्यैः ससवांसो वि शृण्विरे । ये अग्ना दधिरे दुवः
अस्मे रायो दिवेदिवे सं चरन्तु पुरुस्पृहः । अस्मे वाजास ईरताम्
स विप्रश्चर्षणीनां शवसा मानुषाणाम् । अति क्षिप्रेव विध्यति
अग्ने मृळ महाँ असि य ईमा देवयुं जनम् । इयेथ बर्हिरासदम्
स मानुषीषु दूळभो विक्षु प्रावीरमर्त्यः । दूतो विश्वेषां भुवत्
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु । उत पोता नि षीदति
उत ग्ना अग्निरध्वर उतो गृहपतिर्दमे । उत ब्रह्मा नि षीदति
वेषि ह्यध्वरीयतामुपवक्ता जनानाम् । हव्या च मानुषाणाम्
वेषीद्वस्य दूत्यं यस्य जुजोषो अध्वरम् । हव्यं मर्तस्य वोळ्हवे
अस्माकं जोष्यध्वरमस्माकं यज्ञमङ्गिरः । अस्माकं शृणुधी हवम्
परि ते दूळभो रथोऽस्माँ अश्नोतु विश्वतः । येन रक्षसि दाशुषः
अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् । ऋध्यामा त ओहैः
अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः । रथीरृतस्य बृहतो बभूथ
एभिर्नो अर्कैर्भवा नो अर्वाङ्स्वर्ण ज्योतिः । अग्ने विश्वेभिः सुमना अनीकैः
आभिष्टे अद्य गीर्भिर्गृणन्तोऽग्ने दाशेम । प्र ते दिवो न स्तनयन्ति शुष्माः
तव स्वादिष्ठाग्ने संदृष्टिरिदा चिदह्न इदा चिदक्तोः । श्रिये रुक्मो न रोचत उपाके
घृतं न पूतं तनूररेपाः शुचि हिरण्यम् । तत्ते रुक्मो न रोचत स्वधावः
कृतं चिद्धि ष्मा सनेमि द्वेषोऽग्न इनोषि मर्तात् । इत्था यजमानादृतावः
शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे । सा नो नाभिः सदने सस्मिन्नूधन्
भद्रं ते अग्ने सहसिन्ननीकमुपाक आ रोचते सूर्यस्य । रुशद्दृशे ददृशे नक्तया चिदरूक्षितं दृश आ रूपे अन्नम्
वि षाह्यग्ने गृणते मनीषां खं वेपसा तुविजात स्तवानः । विश्वेभिर्यद्वावनः शुक्र देवैस्तन्नो रास्व सुमहो भूरि मन्म
त्वदग्ने काव्या त्वन्मनीषास्त्वदुक्था जायन्ते राध्यानि । त्वदेति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय
त्वद्वाजी वाजम्भरो विहाया अभिष्टिकृज्जायते सत्यशुष्मः । त्वद्रयिर्देवजूतो मयोभुस्त्वदाशुर्जूजुवाँ अग्ने अर्वा
त्वामग्ने प्रथमं देवयन्तो देवं मर्ता अमृत मन्द्रजिह्वम् । द्वेषोयुतमा विवासन्ति धीभिर्दमूनसं गृहपतिममूरम्
आरे अस्मदमतिमारे अंह आरे विश्वां दुर्मतिं यन्निपासि । दोषा शिवः सहसः सूनो अग्ने यं देव आ चित्सचसे स्वस्ति