यस्तुभ्यमग्ने अमृताय दाशद्दुवस्त्वे कृणवते यतस्रुक् । न स राया शशमानो वि योषन्नैनमंहः परि वरदघायोः
यस्य त्वमग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः । प्रीतेदसद्धोत्रा सा यविष्ठासाम यस्य विधतो वृधासः
चित्तिमचित्तिं चिनवद्वि विद्वान्पृष्ठेव वीता वृजिना च मर्तान् । राये च नः स्वपत्याय देव दितिं च रास्वादितिमुरुष्य
कविं शशासुः कवयोऽदब्धा निधारयन्तो दुर्यास्वायोः । अतस्त्वं दृश्याँ अग्न एतान्पड्भिः पश्येरद्भुताँ अर्य एवैः
त्वमग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ । रत्नं भर शशमानाय घृष्वे पृथु श्चन्द्रमवसे चर्षणिप्राः
अधा ह यद्वयमग्ने त्वाया पड्भिर्हस्तेभिश्चकृमा तनूभिः । रथं न क्रन्तो अपसा भुरिजोरृतं येमुः सुध्य आशुषाणाः
अधा मातुरुषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन् । दिवस्पुत्रा अङ्गिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः
अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशुषाणाः । शुचीदयन्दीधितिमुक्थशासः क्षामा भिन्दन्तो अरुणीरप व्रन्
सुकर्माणः सुरुचो देवयन्तोऽयो न देवा जनिमा धमन्तः । शुचन्तो अग्निं ववृधन्त इन्द्रमूर्वं गव्यं परिषदन्तो अग्मन्
आ यूथेव क्षुमति पश्वो अख्यद्देवानां यज्जनिमान्त्युग्र । मर्तानां चिदुर्वशीरकृप्रन्वृधे चिदर्य उपरस्यायोः
अकर्म ते स्वपसो अभूम ऋतमवस्रन्नुषसो विभातीः । अनूनमग्निं पुरुधा सुश्चन्द्रं देवस्य मर्मृजतश्चारु चक्षुः
एता ते अग्न उचथानि वेधोऽवोचाम कवये ता जुषस्व । उच्छोचस्व कृणुहि वस्यसो नो महो रायः पुरुवार प्र यन्धि
आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः । अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम्
अयं योनिश्चकृमा यं वयं ते जायेव पत्य उशती सुवासाः । अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः
आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः । देवाय शस्तिममृताय शंस ग्रावेव सोता मधुषुद्यमीळे
त्वं चिन्नः शम्या अग्ने अस्या ऋतस्य बोध्यृतचित्स्वाधीः । कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते
कथा ह तद्वरुणाय त्वमग्ने कथा दिवे गर्हसे कन्न आगः । कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कदर्यम्णे कद्भगाय
कद्धिष्ण्यासु वृधसानो अग्ने कद्वाताय प्रतवसे शुभंये । परिज्मने नासत्याय क्षे ब्रवः कदग्ने रुद्राय नृघ्ने
कथा महे पुष्टिम्भराय पूष्णे कद्रुद्राय सुमखाय हविर्दे । कद्विष्णव उरुगायाय रेतो ब्रवः कदग्ने शरवे बृहत्यै
कथा शर्धाय मरुतामृताय कथा सूरे बृहते पृच्छ्यमानः । प्रति ब्रवोऽदितये तुराय साधा दिवो जातवेदश्चिकित्वान्
ऋतेन ऋतं नियतमीळ आ गोरामा सचा मधुमत्पक्वमग्ने । कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय
ऋतेन हि ष्मा वृषभश्चिदक्तः पुमाँ अग्निः पयसा पृष्ठ्येन । अस्पन्दमानो अचरद्वयोधा वृषा शुक्रं दुदुहे पृश्निरूधः
ऋतेनाद्रिं व्यसन्भिदन्तः समङ्गिरसो नवन्त गोभिः । शुनं नरः परि षदन्नुषासमाविः स्वरभवज्जाते अग्नौ
ऋतेन देवीरमृता अमृक्ता अर्णोभिरापो मधुमद्भिरग्ने । वाजी न सर्गेषु प्रस्तुभानः प्र सदमित्स्रवितवे दधन्युः
मा कस्य यक्षं सदमिद्धुरो गा मा वेशस्य प्रमिनतो मापेः । मा भ्रातुरग्ने अनृजोरृणं वेर्मा सख्युर्दक्षं रिपोर्भुजेम
रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः । प्रति ष्फुर वि रुज वीड्वंहो जहि रक्षो महि चिद्वावृधानम्
एभिर्भव सुमना अग्ने अर्कैरिमान्स्पृश मन्मभिः शूर वाजान् । उत ब्रह्माण्यङ्गिरो जुषस्व सं ते शस्तिर्देववाता जरेत
एता विश्वा विदुषे तुभ्यं वेधो नीथान्यग्ने निण्या वचांसि । निवचना कवये काव्यान्यशंसिषं मतिभिर्विप्र उक्थैः
कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाँ इभेन । तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठैः
तव भ्रमास आशुया पतन्त्यनु स्पृश धृषता शोशुचानः । तपूंष्यग्ने जुह्वा पतंगानसंदितो वि सृज विष्वगुल्काः