स चेतयन्मनुषो यज्ञबन्धुः प्र तं मह्या रशनया नयन्ति । स क्षेत्यस्य दुर्यासु साधन्देवो मर्तस्य सधनित्वमाप
स तू नो अग्निर्नयतु प्रजानन्नच्छा रत्नं देवभक्तं यदस्य । धिया यद्विश्वे अमृता अकृण्वन्द्यौष्पिता जनिता सत्यमुक्षन्
स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ । अपादशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे
प्र शर्ध आर्त प्रथमं विपन्यँ ऋतस्य योना वृषभस्य नीळे । स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासोऽजनयन्त वृष्णे
अस्माकमत्र पितरो मनुष्या अभि प्र सेदुरृतमाशुषाणाः । अश्मव्रजाः सुदुघा वव्रे अन्तरुदुस्रा आजन्नुषसो हुवानाः
ते मर्मृजत ददृवांसो अद्रिं तदेषामन्ये अभितो वि वोचन् । पश्वयन्त्रासो अभि कारमर्चन्विदन्त ज्योतिश्चकृपन्त धीभिः
ते गव्यता मनसा दृध्रमुब्धं गा येमानं परि षन्तमद्रिम् । दृळ्हं नरो वचसा दैव्येन व्रजं गोमन्तमुशिजो वि वव्रुः
ते मन्वत प्रथमं नाम धेनोस्त्रिः सप्त मातुः परमाणि विन्दन् । तज्जानतीरभ्यनूषत व्रा आविर्भुवदरुणीर्यशसा गोः
नेशत्तमो दुधितं रोचत द्यौरुद्देव्या उषसो भानुरर्त । आ सूर्यो बृहतस्तिष्ठदज्राँ ऋजु मर्तेषु वृजिना च पश्यन्
आदित्पश्चा बुबुधाना व्यख्यन्नादिद्रत्नं धारयन्त द्युभक्तम् । विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यमस्तु
अच्छा वोचेय शुशुचानमग्निं होतारं विश्वभरसं यजिष्ठम् । शुच्यूधो अतृणन्न गवामन्धो न पूतं परिषिक्तमंशोः
विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणाम् । अग्निर्देवानामव आवृणानः सुमृळीको भवतु जातवेदाः
यो मर्त्येष्वमृत ऋतावा देवो देवेष्वरतिर्निधायि । होता यजिष्ठो मह्ना शुचध्यै हव्यैरग्निर्मनुष ईरयध्यै
इह त्वं सूनो सहसो नो अद्य जातो जाताँ उभयाँ अन्तरग्ने । दूत ईयसे युयुजान ऋष्व ऋजुमुष्कान्वृषणः शुक्राँश्च
अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा । अन्तरीयसे अरुषा युजानो युष्माँश्च देवान्विश आ च मर्तान्
अर्यमणं वरुणं मित्रमेषामिन्द्राविष्णू मरुतो अश्विनोत । स्वश्वो अग्ने सुरथः सुराधा एदु वह सुहविषे जनाय
गोमाँ अग्नेऽविमाँ अश्वी यज्ञो नृवत्सखा सदमिदप्रमृष्यः । इळावाँ एषो असुर प्रजावान्दीर्घो रयिः पृथुबुध्नः सभावान्
यस्त इध्मं जभरत्सिष्विदानो मूर्धानं वा ततपते त्वाया । भुवस्तस्य स्वतवाँः पायुरग्ने विश्वस्मात्सीमघायत उरुष्य
यस्ते भरादन्नियते चिदन्नं निशिषन्मन्द्रमतिथिमुदीरत् । आ देवयुरिनधते दुरोणे तस्मिन्रयिर्ध्रुवो अस्तु दास्वान्
यस्त्वा दोषा य उषसि प्रशंसात्प्रियं वा त्वा कृणवते हविष्मान् । अश्वो न स्वे दम आ हेम्यावान्तमंहसः पीपरो दाश्वांसम्
यस्तुभ्यमग्ने अमृताय दाशद्दुवस्त्वे कृणवते यतस्रुक् । न स राया शशमानो वि योषन्नैनमंहः परि वरदघायोः
यस्य त्वमग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः । प्रीतेदसद्धोत्रा सा यविष्ठासाम यस्य विधतो वृधासः
चित्तिमचित्तिं चिनवद्वि विद्वान्पृष्ठेव वीता वृजिना च मर्तान् । राये च नः स्वपत्याय देव दितिं च रास्वादितिमुरुष्य
कविं शशासुः कवयोऽदब्धा निधारयन्तो दुर्यास्वायोः । अतस्त्वं दृश्याँ अग्न एतान्पड्भिः पश्येरद्भुताँ अर्य एवैः
त्वमग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ । रत्नं भर शशमानाय घृष्वे पृथु श्चन्द्रमवसे चर्षणिप्राः
अधा ह यद्वयमग्ने त्वाया पड्भिर्हस्तेभिश्चकृमा तनूभिः । रथं न क्रन्तो अपसा भुरिजोरृतं येमुः सुध्य आशुषाणाः
अधा मातुरुषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन् । दिवस्पुत्रा अङ्गिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः
अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशुषाणाः । शुचीदयन्दीधितिमुक्थशासः क्षामा भिन्दन्तो अरुणीरप व्रन्
सुकर्माणः सुरुचो देवयन्तोऽयो न देवा जनिमा धमन्तः । शुचन्तो अग्निं ववृधन्त इन्द्रमूर्वं गव्यं परिषदन्तो अग्मन्
आ यूथेव क्षुमति पश्वो अख्यद्देवानां यज्जनिमान्त्युग्र । मर्तानां चिदुर्वशीरकृप्रन्वृधे चिदर्य उपरस्यायोः