इयं ते पूषन्नाघृणे सुष्टुतिर्देव नव्यसी । अस्माभिस्तुभ्यं शस्यते
तां जुषस्व गिरं मम वाजयन्तीमवा धियम् । वधूयुरिव योषणाम्
यो विश्वाभि विपश्यति भुवना सं च पश्यति । स नः पूषाविता भुवत्
तत् सवितुर् वरेण्यम् भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात्
देवस्य सवितुर् वयꣳ वाजयन्तः पुरꣳध्या । भगस्य रातिम् ईमहे
देवꣳ नरः सवितारꣳ विप्रा यज्ञैः सुवृक्तिभिः । नमस्यन्ति धियेषिताः
सोमो जिगाति गातुविद् देवानाम् एति निष्कृतम् । ऋतस्य योनिम् आसदम्
सोमो अस्मभ्यꣳ द्विपदे चतुष्पदे च पशवे । अनमीवा इषस् करत्
अस्माकम् आयुर् वर्धयन्न् अभिमातीः सहमानः । सोमः सधस्थम् आसदत्
आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् । मध्वा रजाꣳसि सुक्रतू
उरुशꣳसा नमोवृधा मह्ना दक्षस्य राजथः । द्राघिष्ठाभिः शुचिव्रता
गृणाना जमदग्निना योनाव् ऋतस्य सीदतम् । पातꣳ सोमम् ऋतावृधा
त्वां ह्यग्ने सदमित्समन्यवो देवासो देवमरतिं न्येरिर इति क्रत्वा न्येरिरे । अमर्त्यं यजत मर्त्येष्वा देवमादेवं जनत प्रचेतसं विश्वमादेवं जनत प्रचेतसम्
स भ्रातरं वरुणमग्न आ ववृत्स्व देवाँ अच्छा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसम् । ऋतावानमादित्यं चर्षणीधृतं राजानं चर्षणीधृतम्
सखे सखायमभ्या ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या । अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु । तोकाय तुजे शुशुचान शं कृध्यस्मभ्यं दस्म शं कृधि
त्वं नो अग्ने वरुणस्य विद्वान्देवस्य हेळोऽव यासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्यस्मत्
स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणं रराणो वीहि मृळीकं सुहवो न एधि
अस्य श्रेष्ठा सुभगस्य संदृग्देवस्य चित्रतमा मर्त्येषु । शुचि घृतं न तप्तमघ्न्याया स्पार्हा देवस्य मंहनेव धेनोः
त्रिरस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्यग्नेः । अनन्ते अन्तः परिवीत आगाच्छुचिः शुक्रो अर्यो रोरुचानः
स दूतो विश्वेदभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः । रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत्
स चेतयन्मनुषो यज्ञबन्धुः प्र तं मह्या रशनया नयन्ति । स क्षेत्यस्य दुर्यासु साधन्देवो मर्तस्य सधनित्वमाप
स तू नो अग्निर्नयतु प्रजानन्नच्छा रत्नं देवभक्तं यदस्य । धिया यद्विश्वे अमृता अकृण्वन्द्यौष्पिता जनिता सत्यमुक्षन्
स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ । अपादशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे
प्र शर्ध आर्त प्रथमं विपन्यँ ऋतस्य योना वृषभस्य नीळे । स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासोऽजनयन्त वृष्णे
अस्माकमत्र पितरो मनुष्या अभि प्र सेदुरृतमाशुषाणाः । अश्मव्रजाः सुदुघा वव्रे अन्तरुदुस्रा आजन्नुषसो हुवानाः
ते मर्मृजत ददृवांसो अद्रिं तदेषामन्ये अभितो वि वोचन् । पश्वयन्त्रासो अभि कारमर्चन्विदन्त ज्योतिश्चकृपन्त धीभिः
ते गव्यता मनसा दृध्रमुब्धं गा येमानं परि षन्तमद्रिम् । दृळ्हं नरो वचसा दैव्येन व्रजं गोमन्तमुशिजो वि वव्रुः
ते मन्वत प्रथमं नाम धेनोस्त्रिः सप्त मातुः परमाणि विन्दन् । तज्जानतीरभ्यनूषत व्रा आविर्भुवदरुणीर्यशसा गोः
नेशत्तमो दुधितं रोचत द्यौरुद्देव्या उषसो भानुरर्त । आ सूर्यो बृहतस्तिष्ठदज्राँ ऋजु मर्तेषु वृजिना च पश्यन्
आदित्पश्चा बुबुधाना व्यख्यन्नादिद्रत्नं धारयन्त द्युभक्तम् । विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यमस्तु