या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची । तयेह विश्वाँ अवसे यजत्राना सादय पायया चा मधूनि
या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद्देव चित्रा । तामस्मभ्यं प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम्
धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः । आ द्योतनिं वहति शुभ्रयामोषस स्तोमो अश्विनावजीगः
सुयुग्वहन्ति प्रति वामृतेनोर्ध्वा भवन्ति पितरेव मेधाः । जरेथामस्मद्वि पणेर्मनीषां युवोरवश्चकृमा यातमर्वाक्
सुयुग्भिरश्वैः सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः । किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः
आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवन्ते । इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुरुस्रो अग्रे
तिरः पुरू चिदश्विना रजांस्याङ्गूषो वां मघवाना जनेषु । एह यातं पथिभिर्देवयानैर्दस्राविमे वां निधयो मधूनाम्
पुराणमोकः सख्यं शिवं वां युवोर्नरा द्रविणं जह्नाव्याम् । पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः
अश्विना वायुना युवं सुदक्षा नियुद्भिश्च सजोषसा युवाना । नासत्या तिरोअह्न्यं जुषाणा सोमं पिबतमस्रिधा सुदानू
अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अमृध्राः । रथो ह वामृतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः
अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे । रथो ह वां भूरि वर्पः करिक्रत्सुतावतो निष्कृतमागमिष्ठः
मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् । मित्रः कृष्टीरनिमिषाभि चष्टे मित्राय हव्यं घृतवज्जुहोत
प्र स मित्र मर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षति व्रतेन । न हन्यते न जीयते त्वोतो नैनमंहो अश्नोत्यन्तितो न दूरात्
अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पृथिव्याः । आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम
अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः । तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम
महाँ आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः । तस्मा एतत्पन्यतमाय जुष्टमग्नौ मित्राय हविरा जुहोत
मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि । द्युम्नं चित्रश्रवस्तमम्
अभि यो महिना दिवं मित्रो बभूव सप्रथाः । अभि श्रवोभिः पृथिवीम्
मित्राय पञ्च येमिरे जना अभिष्टिशवसे । स देवान्विश्वान्बिभर्ति
मित्रो देवेष्वायुषु जनाय वृक्तबर्हिषे । इष इष्टव्रता अकः
इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा । याभिर्मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश
याभिः शचीभिश्चमसाँ अपिंशत यया धिया गामरिणीत चर्मणः । येन हरी मनसा निरतक्षत तेन देवत्वमृभवः समानश
इन्द्रस्य सख्यमृभवः समानशुर्मनोर्नपातो अपसो दधन्विरे । सौधन्वनासो अमृतत्वमेरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया
इन्द्रेण याथ सरथं सुते सचाँ अथो वशानां भवथा सह श्रिया । न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च
इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वृषस्वा गभस्त्योः । धियेषितो मघवन्दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः
इन्द्र ऋभुमान्वाजवान्मत्स्वेह नोऽस्मिन्सवने शच्या पुरुष्टुत । इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानां मनुषश्च धर्मभिः
इन्द्र ऋभुभिर्वाजिभिर्वाजयन्निह स्तोमं जरितुरुप याहि यज्ञियम् । शतं केतेभिरिषिरेभिरायवे सहस्रणीथो अध्वरस्य होमनि
उषो वाजेन वाजिनि प्रचेता स्तोमं जुषस्व गृणतो मघोनि । पुराणी देवि युवतिः पुरंधिरनु व्रतं चरसि विश्ववारे
उषो देव्यमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती । आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पृथुपाजसो ये
उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यमृतस्य केतुः । समानमर्थं चरणीयमाना चक्रमिव नव्यस्या ववृत्स्व