आक्षित्पूर्वास्वपरा अनूरुत्सद्यो जातासु तरुणीष्वन्तः । अन्तर्वतीः सुवते अप्रवीता महद्देवानामसुरत्वमेकम्
शयुः परस्तादध नु द्विमाताबन्धनश्चरति वत्स एकः । मित्रस्य ता वरुणस्य व्रतानि महद्देवानामसुरत्वमेकम्
द्विमाता होता विदथेषु सम्राळन्वग्रं चरति क्षेति बुध्नः । प्र रण्यानि रण्यवाचो भरन्ते महद्देवानामसुरत्वमेकम्
शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वमायत् । अन्तर्मतिश्चरति निष्षिधं गोर्महद्देवानामसुरत्वमेकम्
नि वेवेति पलितो दूत आस्वन्तर्महाँश्चरति रोचनेन । वपूंषि बिभ्रदभि नो वि चष्टे महद्देवानामसुरत्वमेकम्
विष्णुर्गोपाः परमं पाति पाथः प्रिया धामान्यमृता दधानः । अग्निष्टा विश्वा भुवनानि वेद महद्देवानामसुरत्वमेकम्
नाना चक्राते यम्या वपूंषि तयोरन्यद्रोचते कृष्णमन्यत् । श्यावी च यदरुषी च स्वसारौ महद्देवानामसुरत्वमेकम्
माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची । ऋतस्य ते सदसीळे अन्तर्महद्देवानामसुरत्वमेकम्
अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः । ऋतस्य सा पयसापिन्वतेळा महद्देवानामसुरत्वमेकम्
पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ त्र्यविं रेरिहाणा । ऋतस्य सद्म वि चरामि विद्वान्महद्देवानामसुरत्वमेकम्
पदे इव निहिते दस्मे अन्तस्तयोरन्यद्गुह्यमाविरन्यत् । सध्रीचीना पथ्या सा विषूची महद्देवानामसुरत्वमेकम्
आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः । नव्यानव्या युवतयो भवन्तीर्महद्देवानामसुरत्वमेकम्
यदन्यासु वृषभो रोरवीति सो अन्यस्मिन्यूथे नि दधाति रेतः । स हि क्षपावान्स भगः स राजा महद्देवानामसुरत्वमेकम्
वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुरस्य देवाः । षोळ्हा युक्ताः पञ्चपञ्चा वहन्ति महद्देवानामसुरत्वमेकम्
देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान । इमा च विश्वा भुवनान्यस्य महद्देवानामसुरत्वमेकम्
मही समैरच्चम्वा समीची उभे ते अस्य वसुना न्यृष्टे । शृण्वे वीरो विन्दमानो वसूनि महद्देवानामसुरत्वमेकम्
इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा । पुरःसदः शर्मसदो न वीरा महद्देवानामसुरत्वमेकम्
निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पृथिवी बिभर्ति । सखायस्ते वामभाजः स्याम महद्देवानामसुरत्वमेकम्
न ता मिनन्ति मायिनो न धीरा व्रता देवानां प्रथमा ध्रुवाणि । न रोदसी अद्रुहा वेद्याभिर्न पर्वता निनमे तस्थिवांसः
षड्भाराँ एको अचरन्बिभर्त्यृतं वर्षिष्ठमुप गाव आगुः । तिस्रो महीरुपरास्तस्थुरत्या गुहा द्वे निहिते दर्श्येका
त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान् । त्र्यनीकः पत्यते माहिनावान्स रेतोधा वृषभः शश्वतीनाम्
अभीक आसां पदवीरबोध्यादित्यानामह्वे चारु नाम । आपश्चिदस्मा अरमन्त देवीः पृथग्व्रजन्तीः परि षीमवृञ्जन्
त्री षधस्था सिन्धवस्त्रिः कवीनामुत त्रिमाता विदथेषु सम्राट् । ऋतावरीर्योषणास्तिस्रो अप्यास्त्रिरा दिवो विदथे पत्यमानाः
त्रिरा दिवः सवितर्वार्याणि दिवेदिव आ सुव त्रिर्नो अह्नः । त्रिधातु राय आ सुवा वसूनि भग त्रातर्धिषणे सातये धाः
त्रिरा दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी । आपश्चिदस्य रोदसी चिदुर्वी रत्नं भिक्षन्त सवितुः सवाय
त्रिरुत्तमा दूणशा रोचनानि त्रयो राजन्त्यसुरस्य वीराः । ऋतावान इषिरा दूळभासस्त्रिरा दिवो विदथे सन्तु देवाः
प्र मे विविक्वाँ अविदन्मनीषां धेनुं चरन्तीं प्रयुतामगोपाम् । सद्यश्चिद्या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः
इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे । विश्वे यदस्यां रणयन्त देवाः प्र वोऽत्र वसवः सुम्नमश्याम्
या जामयो वृष्ण इच्छन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन् । अच्छा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि
अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा । इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः