इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः । वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भिरिळया मदन्ता
तिष्ठा सु कं मघवन्मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि । पितुर्न पुत्रः सिचमा रभे त इन्द्र स्वादिष्ठया गिरा शचीवः
शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् । एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम्
जायेदस्तं मघवन्सेदु योनिस्तदित्त्वा युक्ता हरयो वहन्तु । यदा कदा च सुनवाम सोममग्निष्ट्वा दूतो धन्वात्यच्छ
परा याहि मघवन्ना च याहीन्द्र भ्रातरुभयत्रा ते अर्थम् । यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य
अपाः सोममस्तमिन्द्र प्र याहि कल्याणीर्जाया सुरणं गृहे ते । यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो दक्षिणावत्
इमे भोजा अङ्गिरसो विरूपा दिवस्पुत्रासो असुरस्य वीराः । विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः
रूपंरूपं मघवा बोभवीति मायाः कृण्वानस्तन्वं परि स्वाम् । त्रिर्यद्दिवः परि मुहूर्तमागात्स्वैर्मन्त्रैरनृतुपा ऋतावा
महाँ ऋषिर्देवजा देवजूतोऽस्तभ्नात्सिन्धुमर्णवं नृचक्षाः । विश्वामित्रो यदवहत्सुदासमप्रियायत कुशिकेभिरिन्द्रः
हंसा इव कृणुथ श्लोकमद्रिभिर्मदन्तो गीर्भिरध्वरे सुते सचा । देवेभिर्विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु
उप प्रेत कुशिकाश्चेतयध्वमश्वं राये प्र मुञ्चता सुदासः । राजा वृत्रं जङ्घनत्प्रागपागुदगथा यजाते वर आ पृथिव्याः
य इमे रोदसी उभे अहमिन्द्रमतुष्टवम् । विश्वामित्रस्य रक्षति ब्रह्मेदं भारतं जनम्
विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे । करदिन्नः सुराधसः
किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम् । आ नो भर प्रमगन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः
ससर्परीरमतिं बाधमाना बृहन्मिमाय जमदग्निदत्ता । आ सूर्यस्य दुहिता ततान श्रवो देवेष्वमृतमजुर्यम्
ससर्परीरभरत्तूयमेभ्योऽधि श्रवः पाञ्चजन्यासु कृष्टिषु । सा पक्ष्या नव्यमायुर्दधाना यां मे पलस्तिजमदग्नयो ददुः
स्थिरौ गावौ भवतां वीळुरक्षो मेषा वि वर्हि मा युगं वि शारि । इन्द्रः पातल्ये ददतां शरीतोररिष्टनेमे अभि नः सचस्व
बलं धेहि तनूषु नो बलमिन्द्रानळुत्सु नः । बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि
अभि व्ययस्व खदिरस्य सारमोजो धेहि स्पन्दने शिंशपायाम् । अक्ष वीळो वीळित वीळयस्व मा यामादस्मादव जीहिपो नः
अयमस्मान्वनस्पतिर्मा च हा मा च रीरिषत् । स्वस्त्या गृहेभ्य आवसा आ विमोचनात्
इन्द्रोतिभिर्बहुलाभिर्नो अद्य याच्छ्रेष्ठाभिर्मघवञ्छूर जिन्व । यो नो द्वेष्ट्यधरः सस्पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु
परशुं चिद्वि तपति शिम्बलं चिद्वि वृश्चति । उखा चिदिन्द्र येषन्ती प्रयस्ता फेनमस्यति
न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः । नावाजिनं वाजिना हासयन्ति न गर्दभं पुरो अश्वान्नयन्ति
इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर्न प्रपित्वम् । हिन्वन्त्यश्वमरणं न नित्यं ज्यावाजं परि णयन्त्याजौ
इमं महे विदथ्याय शूषं शश्वत्कृत्व ईड्याय प्र जभ्रुः । शृणोतु नो दम्येभिरनीकैः शृणोत्वग्निर्दिव्यैरजस्रः
महि महे दिवे अर्चा पृथिव्यै कामो म इच्छञ्चरति प्रजानन् । ययोर्ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः
युवोरृतं रोदसी सत्यमस्तु महे षु णः सुविताय प्र भूतम् । इदं दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा यामि रत्नम्
उतो हि वां पूर्व्या आविविद्र ऋतावरी रोदसी सत्यवाचः । नरश्चिद्वां समिथे शूरसातौ ववन्दिरे पृथिवि वेविदानाः
को अद्धा वेद क इह प्र वोचद्देवाँ अच्छा पथ्या का समेति । ददृश्र एषामवमा सदांसि परेषु या गुह्येषु व्रतेषु
कविर्नृचक्षा अभि षीमचष्ट ऋतस्य योना विघृते मदन्ती । नाना चक्राते सदनं यथा वेः समानेन क्रतुना संविदाने