चर्षणीधृतं मघवानमुक्थ्यमिन्द्रं गिरो बृहतीरभ्यनूषत । वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे
शतक्रतुमर्णवं शाकिनं नरं गिरो म इन्द्रमुप यन्ति विश्वतः । वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं स्वर्विदम्
आकरे वसोर्जरिता पनस्यतेऽनेहस स्तुभ इन्द्रो दुवस्यति । विवस्वतः सदन आ हि पिप्रिये सत्रासाहमभिमातिहनं स्तुहि
नृणामु त्वा नृतमं गीर्भिरुक्थैरभि प्र वीरमर्चता सबाधः । सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे
पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति । इन्द्राय द्याव ओषधीरुतापो रयिं रक्षन्ति जीरयो वनानि
तुभ्यं ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व । बोध्यापिरवसो नूतनस्य सखे वसो जरितृभ्यो वयो धाः
इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य । तव प्रणीती तव शूर शर्मन्ना विवासन्ति कवयः सुयज्ञाः
स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः सुतं नः । जातं यत्त्वा परि देवा अभूषन्महे भराय पुरुहूत विश्वे
अप्तूर्ये मरुत आपिरेषोऽमन्दन्निन्द्रमनु दातिवाराः । तेभिः साकं पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे
इदं ह्यन्वोजसा सुतं राधानां पते । पिबा त्वस्य गिर्वणः
यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम् । स त्वा ममत्तु सोम्यम्
प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः । प्र बाहू शूर राधसे
धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् । इन्द्र प्रातर्जुषस्व नः
पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च । तुभ्यं हव्यानि सिस्रते
पुरोळाशं च नो घसो जोषयासे गिरश्च नः । वधूयुरिव योषणाम्
पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः । इन्द्र क्रतुर्हि ते बृहन्
माध्यंदिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कृष्वेह चारुम् । प्र यत्स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिरीट्टे
तृतीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः । ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः
पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः । अपूपमद्धि सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान्
प्रति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नृणाम् । दिवेदिवे सदृशीरिन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो
इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः । वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भिरिळया मदन्ता
तिष्ठा सु कं मघवन्मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि । पितुर्न पुत्रः सिचमा रभे त इन्द्र स्वादिष्ठया गिरा शचीवः
शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् । एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम्
जायेदस्तं मघवन्सेदु योनिस्तदित्त्वा युक्ता हरयो वहन्तु । यदा कदा च सुनवाम सोममग्निष्ट्वा दूतो धन्वात्यच्छ
परा याहि मघवन्ना च याहीन्द्र भ्रातरुभयत्रा ते अर्थम् । यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य
अपाः सोममस्तमिन्द्र प्र याहि कल्याणीर्जाया सुरणं गृहे ते । यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो दक्षिणावत्
इमे भोजा अङ्गिरसो विरूपा दिवस्पुत्रासो असुरस्य वीराः । विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः
रूपंरूपं मघवा बोभवीति मायाः कृण्वानस्तन्वं परि स्वाम् । त्रिर्यद्दिवः परि मुहूर्तमागात्स्वैर्मन्त्रैरनृतुपा ऋतावा
महाँ ऋषिर्देवजा देवजूतोऽस्तभ्नात्सिन्धुमर्णवं नृचक्षाः । विश्वामित्रो यदवहत्सुदासमप्रियायत कुशिकेभिरिन्द्रः
हंसा इव कृणुथ श्लोकमद्रिभिर्मदन्तो गीर्भिरध्वरे सुते सचा । देवेभिर्विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु