आ च त्वामेता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा । धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शृणवद्वन्दनानि
कुविन्मा गोपां करसे जनस्य कुविद्राजानं मघवन्नृजीषिन् । कुविन्म ऋषिं पपिवांसं सुतस्य कुविन्मे वस्वो अमृतस्य शिक्षाः
आ त्वा बृहन्तो हरयो युजाना अर्वागिन्द्र सधमादो वहन्तु । प्र ये द्विता दिव ऋञ्जन्त्याताः सुसम्मृष्टासो वृषभस्य मूराः
इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते जभार । यस्य मदे च्यावयसि प्र कृष्टीर्यस्य मदे अप गोत्रा ववर्थ
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्
अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः । जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम्
हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः । विद्वाँश्चिकित्वान्हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः
द्यामिन्द्रो हरिधायसं पृथिवीं हरिवर्पसम् । अधारयद्धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत्
जज्ञानो हरितो वृषा विश्वमा भाति रोचनम् । हर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिम्
इन्द्रो हर्यन्तमर्जुनं वज्रं शुक्रैरभीवृतम् । अपावृणोद्धरिभिरद्रिभिः सुतमुद्गा हरिभिराजत
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । मा त्वा के चिन्नि यमन्विं न पाशिनोऽति धन्वेव ताँ इहि
वृत्रखादो वलंरुजः पुरां दर्मो अपामजः । स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृळ्हा चिदारुजः
गम्भीराँ उदधीँरिव क्रतुं पुष्यसि गा इव । प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत
आ नस्तुजं रयिं भरांशं न प्रतिजानते । वृक्षं पक्वं फलमङ्कीव धूनुहीन्द्र सम्पारणं वसु
स्वयुरिन्द्र स्वराळसि स्मद्दिष्टिः स्वयशस्तरः । स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः
युध्मस्य ते वृषभस्य स्वराज उग्रस्य यून स्थविरस्य घृष्वेः । अजूर्यतो वज्रिणो वीर्याणीन्द्र श्रुतस्य महतो महानि
महाँ असि महिष वृष्ण्येभिर्धनस्पृदुग्र सहमानो अन्यान् । एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान्
प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर्विश्वतो अप्रतीतः । प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर्महो अन्तरिक्षादृजीषी
उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनाम् । इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवत आ विशन्ति
यं सोममिन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस्त्वाया । तं ते हिन्वन्ति तमु ते मृजन्त्यध्वर्यवो वृषभ पातवा उ
मरुत्वाँ इन्द्र वृषभो रणाय पिबा सोममनुष्वधं मदाय । आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम्
सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् । जहि शत्रूँरप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः
उत ऋतुभिरृतुपाः पाहि सोममिन्द्र देवेभिः सखिभिः सुतं नः । याँ आभजो मरुतो ये त्वान्वहन्वृत्रमदधुस्तुभ्यमोजः
ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्टौ । ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः
मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम् । विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम
सद्यो ह जातो वृषभः कनीनः प्रभर्तुमावदन्धसः सुतस्य । साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य
यज्जायथास्तदहरस्य कामेऽंशोः पीयूषमपिबो गिरिष्ठाम् । तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे
उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः । प्रयावयन्नचरद्गृत्सो अन्यान्महानि चक्रे पुरुधप्रतीकः
उग्रस्तुराषाळभिभूत्योजा यथावशं तन्वं चक्र एषः । त्वष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्