विवेष यन्मा धिषणा जजान स्तवै पुरा पार्यादिन्द्रमह्नः । अंहसो यत्र पीपरद्यथा नो नावेव यान्तमुभये हवन्ते
आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै । समु प्रिया आववृत्रन्मदाय प्रदक्षिणिदभि सोमास इन्द्रम्
न त्वा गभीरः पुरुहूत सिन्धुर्नाद्रयः परि षन्तो वरन्त । इत्था सखिभ्य इषितो यदिन्द्रा दृळ्हं चिदरुजो गव्यमूर्वम्
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्
प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने । गावेव शुभ्रे मातरा रिहाणे विपाट् छुतुद्री पयसा जवेते
इन्द्रेषिते प्रसवं भिक्षमाणे अच्छा समुद्रं रथ्येव याथः । समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे
अच्छा सिन्धुं मातृतमामयासं विपाशमुर्वीं सुभगामगन्म । वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती
एना वयं पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः । न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति
रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः । प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः
इन्द्रो अस्माँ अरदद्वज्रबाहुरपाहन्वृत्रं परिधिं नदीनाम् । देवोऽनयत्सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः
प्रवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिं विवृश्चत् । वि वज्रेण परिषदो जघानायन्नापोऽयनमिच्छमानाः
एतद्वचो जरितर्मापि मृष्ठा आ यत्ते घोषानुत्तरा युगानि । उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते
ओ षु स्वसारः कारवे शृणोत ययौ वो दूराद् अनसा रथेन । नि षू नमध्वम् भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः
आ ते कारो शृणवामा वचाꣳसि ययाथ दूराद् अनसा रथेन । नि ते नꣳसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते
यद् अङ्ग त्वा भरताः सꣳतरेयुर् गव्यन् ग्राम इषित इन्द्रजूतः । अर्षाद् अह प्रसवः सर्गतक्त आ वो वृणे सुमतिꣳ यज्ञियानाम्
अतारिषुर् भरता गव्यवः सम् अभक्त विप्रः सुमतिꣳ नदीनाम् । प्र पिन्वध्वम् इषयन्तीः सुराधा आ वक्षणाः पृणध्वꣳ यात शीभम्
उद् व ऊर्मिः शम्या हन्त्व् आपो योक्त्राणि मुञ्चत । मादुष्कृतौ व्येनसाघ्न्यौ शूनम् आरताम्
इन्द्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून् । ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे
मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन् । इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा
इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः । अहन्व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम्
इन्द्रः स्वर्षा जनयन्नहानि जिगायोशिग्भिः पृतना अभिष्टिः । प्रारोचयन्मनवे केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय
इन्द्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि । अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम्
महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि । वृजनेन वृजिनान्सं पिपेष मायाभिर्दस्यूँरभिभूत्योजाः
युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः । विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति
सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः । ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः
ससानात्याँ उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् । हिरण्ययमुत भोगं ससान हत्वी दस्यून्प्रार्यं वर्णमावत्
इन्द्र ओषधीरसनोदहानि वनस्पतीँरसनोदन्तरिक्षम् । बिभेद वलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम्
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्
तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अच्छ । पिबास्यन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय
उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि । द्रवद्यथा सम्भृतं विश्वतश्चिदुपेमं यज्ञमा वहात इन्द्रम्