स्वस्तये वाजिभिश्च प्रणेतः सं यन्महीरिष आसत्सि पूर्वीः । रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान्
आ नो भर भगमिन्द्र द्युमन्तं नि ते देष्णस्य धीमहि प्ररेके । ऊर्व इव पप्रथे कामो अस्मे तमा पृण वसुपते वसूनाम्
इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च । स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन्
आ नो गोत्रा दर्दृहि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः । दिवक्षा असि वृषभ सत्यशुष्मोऽस्मभ्यं सु मघवन्बोधि गोदाः
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्
शासद्वह्निर्दुहितुर्नप्त्यं गाद्विद्वाँ ऋतस्य दीधितिं सपर्यन् । पिता यत्र दुहितुः सेकमृञ्जन्सं शग्म्येन मनसा दधन्वे
न जामये तान्वो रिक्थमारैक्चकार गर्भं सनितुर्निधानम् । यदी मातरो जनयन्त वह्निमन्यः कर्ता सुकृतोरन्य ऋन्धन्
अग्निर्जज्ञे जुह्वा रेजमानो महस्पुत्राँ अरुषस्य प्रयक्षे । महान्गर्भो मह्या जातमेषां मही प्रवृद्धर्यश्वस्य यज्ञैः
अभि जैत्रीरसचन्त स्पृधानं महि ज्योतिस्तमसो निरजानन् । तं जानतीः प्रत्युदायन्नुषासः पतिर्गवामभवदेक इन्द्रः
वीळौ सतीरभि धीरा अतृन्दन्प्राचाहिन्वन्मनसा सप्त विप्राः । विश्वामविन्दन्पथ्यामृतस्य प्रजानन्नित्ता नमसा विवेश
विदद्यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक्कः । अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात्
अगच्छदु विप्रतमः सखीयन्नसूदयत्सुकृते गर्भमद्रिः । ससान मर्यो युवभिर्मखस्यन्नथाभवदङ्गिराः सद्यो अर्चन्
सतःसतः प्रतिमानं पुरोभूर्विश्वा वेद जनिमा हन्ति शुष्णम् । प्र णो दिवः पदवीर्गव्युरर्चन्सखा सखीँरमुञ्चन्निरवद्यात्
नि गव्यता मनसा सेदुरर्कैः कृण्वानासो अमृतत्वाय गातुम् । इदं चिन्नु सदनं भूर्येषां येन मासाँ असिषासन्नृतेन
सम्पश्यमाना अमदन्नभि स्वं पयः प्रत्नस्य रेतसो दुघानाः । वि रोदसी अतपद्घोष एषां जाते निष्ठामदधुर्गोषु वीरान्
स जातेभिर्वृत्रहा सेदु हव्यैरुदुस्रिया असृजदिन्द्रो अर्कैः । उरूच्यस्मै घृतवद्भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः
पित्रे चिच्चक्रुः सदनं समस्मै महि त्विषीमत्सुकृतो वि हि ख्यन् । विष्कभ्नन्त स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन्
मही यदि धिषणा शिश्नथे धात्सद्योवृधं विभ्वं रोदस्योः । गिरो यस्मिन्ननवद्याः समीचीर्विश्वा इन्द्राय तविषीरनुत्ताः
मह्या ते सख्यं वश्मि शक्तीरा वृत्रघ्ने नियुतो यन्ति पूर्वीः । महि स्तोत्रमव आगन्म सूरेरस्माकं सु मघवन्बोधि गोपाः
महि क्षेत्रं पुरु श्चन्द्रं विविद्वानादित्सखिभ्यश्चरथं समैरत् । इन्द्रो नृभिरजनद्दीद्यानः साकं सूर्यमुषसं गातुमग्निम्
अपश्चिदेष विभ्वो दमूनाः प्र सध्रीचीरसृजद्विश्वश्चन्द्राः । मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः
अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे । परि यत्ते महिमानं वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः
पतिर्भव वृत्रहन्सूनृतानां गिरां विश्वायुर्वृषभो वयोधाः । आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन्
तमङ्गिरस्वन्नमसा सपर्यन्नव्यं कृणोमि सन्यसे पुराजाम् । द्रुहो वि याहि बहुला अदेवीः स्वश्च नो मघवन्सातये धाः
मिहः पावकाः प्रतता अभूवन्स्वस्ति नः पिपृहि पारमासाम् । इन्द्र त्वं रथिरः पाहि नो रिषो मक्षूमक्षू कृणुहि गोजितो नः
अदेदिष्ट वृत्रहा गोपतिर्गा अन्तः कृष्णाँ अरुषैर्धामभिर्गात् । प्र सूनृता दिशमान ऋतेन दुरश्च विश्वा अवृणोदप स्वाः
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम्
इन्द्र सोमं सोमपते पिबेमं माध्यंदिनं सवनं चारु यत्ते । प्रप्रुथ्या शिप्रे मघवन्नृजीषिन्विमुच्या हरी इह मादयस्व
गवाशिरं मन्थिनमिन्द्र शुक्रं पिबा सोमं ररिमा ते मदाय । ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस्तृपदा वृषस्व
ये ते शुष्मं ये तविषीमवर्धन्नर्चन्त इन्द्र मरुतस्त ओजः । माध्यंदिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र