वि मृळीकाय ते मनो रथीरश्वं न संदितम् । गीर्भिर्वरुण सीमहि
परा हि मे विमन्यवः पतन्ति वस्यइष्टये । वयो न वसतीरुप
कदा क्षत्रश्रियं नरमा वरुणं करामहे । मृळीकायोरुचक्षसम्
तदित्समानमाशाते वेनन्ता न प्र युच्छतः । धृतव्रताय दाशुषे
वेदा यो वीनां पदमन्तरिक्षेण पतताम् । वेद नावः समुद्रियः
वेद मासो धृतव्रतो द्वादश प्रजावतः । वेदा य उपजायते
वेद वातस्य वर्तनिमुरोरृष्वस्य बृहतः । वेदा ये अध्यासते
नि षसाद धृतव्रतो वरुणः पस्त्यास्वा । साम्राज्याय सुक्रतुः
अतो विश्वान्यद्भुता चिकित्वाँ अभि पश्यति । कृतानि या च कर्त्वा
स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत् । प्र ण आयूंषि तारिषत्
बिभ्रद्द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् । परि स्पशो नि षेदिरे
न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् । न देवमभिमातयः
उत यो मानुषेष्वा यशश्चक्रे असाम्या । अस्माकमुदरेष्वा
परा मे यन्ति धीतयो गावो न गव्यूतीरनु । इच्छन्तीरुरुचक्षसम्
सं नु वोचावहै पुनर्यतो मे मध्वाभृतम् । होतेव क्षदसे प्रियम्
दर्शं नु विश्वदर्शतं दर्शं रथमधि क्षमि । एता जुषत मे गिरः
इमं मे वरुण श्रुधी हवमद्या च मृळय । त्वामवस्युरा चके
त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि । स यामनि प्रति श्रुधि
उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत । अवाधमानि जीवसे
वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते । सेमं नो अध्वरं यज
नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः । अग्ने दिवित्मता वचः
आ हि ष्मा सूनवे पितापिर्यजत्यापये । सखा सख्ये वरेण्यः
आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा । सीदन्तु मनुषो यथा
पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च । इमा उ षु श्रुधी गिरः
यच्चिद्धि शश्वता तना देवंदेवं यजामहे । त्वे इद्धूयते हविः
प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः । प्रियाः स्वग्नयो वयम्
स्वग्नयो हि वार्यं देवासो दधिरे च नः । स्वग्नयो मनामहे
अथा न उभयेषाममृत मर्त्यानाम् । मिथः सन्तु प्रशस्तयः
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः । चनो धाः सहसो यहो
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । सम्राजन्तमध्वराणाम्