अग्निर्नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा । स वृत्रहा सनयो विश्ववेदाः पर्षद्विश्वाति दुरिता गृणन्तम्
दधिक्रामग्निमुषसं च देवीं बृहस्पतिं सवितारं च देवम् । अश्विना मित्रावरुणा भगं च वसून्रुद्राँ आदित्याँ इह हुवे
इमं नो यज्ञममृतेषु धेहीमा हव्या जातवेदो जुषस्व । स्तोकानामग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य
घृतवन्तः पावक ते स्तोका श्चोतन्ति मेदसः । स्वधर्मन्देववीतये श्रेष्ठं नो धेहि वार्यम्
तुभ्यं स्तोका घृतश्चुतोऽग्ने विप्राय सन्त्य । ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भव
तुभ्यं श्चोतन्त्यध्रिगो शचीव स्तोकासो अग्ने मेदसो घृतस्य । कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर
ओजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे । श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान्देवशो विहि
अयं सो अग्निर्यस्मिन्सोममिन्द्रः सुतं दधे जठरे वावशानः । सहस्रिणं वाजमत्यं न सप्तिं ससवान्सन्स्तूयसे जातवेदः
अग्ने यत्ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र । येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षाः
अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवाँ ऊचिषे धिष्ण्या ये । या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आपः
पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः । जुषन्तां यज्ञमद्रुहोऽनमीवा इषो महीः
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे
निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य प्रणेता । जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अमृतं जातवेदाः
अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम् । अग्ने वि पश्य बृहताभि रायेषां नो नेता भवतादनु द्यून्
दश क्षिपः पूर्व्यं सीमजीजनन्सुजातं मातृषु प्रियम् । अग्निं स्तुहि दैववातं देवश्रवो यो जनानामसद्वशी
नि त्वा दधे वर आ पृथिव्या इळायास्पदे सुदिनत्वे अह्नाम् । दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्ने दिदीहि
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे
अग्ने सहस्व पृतना अभिमातीरपास्य । दुष्टरस्तरन्नरातीर्वर्चो धा यज्ञवाहसे
अग्न इळा समिध्यसे वीतिहोत्रो अमर्त्यः । जुषस्व सू नो अध्वरम्
अग्ने द्युम्नेन जागृवे सहसः सूनवाहुत । एदं बर्हिः सदो मम
अग्ने विश्वेभिरग्निभिर्देवेभिर्महया गिरः । यज्ञेषु य उ चायवः
अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम् । शिशीहि नः सूनुमतः
अग्ने दिवः सूनुरसि प्रचेतास्तना पृथिव्या उत विश्ववेदाः । ऋधग्देवाँ इह यजा चिकित्वः
अग्निः सनोति वीर्याणि विद्वान्सनोति वाजममृताय भूषन् । स नो देवाँ एह वहा पुरुक्षो
अग्निर्द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः । क्षयन्वाजैः पुरुश्चन्द्रो नमोभिः
अग्न इन्द्रश्च दाशुषो दुरोणे सुतावतो यज्ञमिहोप यातम् । अमर्धन्ता सोमपेयाय देवा
अग्ने अपां समिध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः । सधस्थानि महयमान ऊती
वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम् । सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे
तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम् । बृहस्पतिं मनुषो देवतातये विप्रं श्रोतारमतिथिं रघुष्यदम्
अश्वो न क्रन्दञ्जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगेयुगे । स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नममृतेषु जागृविः