त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः । जन्मेव नित्यं तनयं जुषस्व स्तोमं मे अग्ने तन्वा सुजात
त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्वग्ने अरुषो वि भाहि । वसो नेषि च पर्षि चात्यंहः कृधी नो राय उशिजो यविष्ठ
अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान् । यज्ञस्य नेता प्रथमस्य पायोर्जातवेदो बृहतः सुप्रणीते
अच्छिद्रा शर्म जरितः पुरूणि देवाँ अच्छा दीद्यानः सुमेधाः । रथो न सस्निरभि वक्षि वाजमग्ने त्वं रोदसी नः सुमेके
प्र पीपय वृषभ जिन्व वाजानग्ने त्वं रोदसी नः सुदोघे । देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात्
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे
अयमग्निः सुवीर्यस्येशे महः सौभगस्य । राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम्
इमं नरो मरुतः सश्चता वृधं यस्मिन्रायः शेवृधासः । अभि ये सन्ति पृतनासु दूढ्यो विश्वाहा शत्रुमादभुः
स त्वं नो रायः शिशीहि मीढ्वो अग्ने सुवीर्यस्य । तुविद्युम्न वर्षिष्ठस्य प्रजावतोऽनमीवस्य शुष्मिणः
चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः । आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम्
मा नो अग्नेऽमतये मावीरतायै रीरधः । मागोतायै सहसस्पुत्र मा निदेऽप द्वेषांस्या कृधि
शग्धि वाजस्य सुभग प्रजावतोऽग्ने बृहतो अध्वरे । सं राया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता
समिध्यमानः प्रथमानु धर्मा समक्तुभिरज्यते विश्ववारः । शोचिष्केशो घृतनिर्णिक्पावकः सुयज्ञो अग्निर्यजथाय देवान्
यथायजो होत्रमग्ने पृथिव्या यथा दिवो जातवेदश्चिकित्वान् । एवानेन हविषा यक्षि देवान्मनुष्वद्यज्ञं प्र तिरेममद्य
त्रीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने । ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः
अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस्त्वेड्यं जातवेदः । त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्नमृतस्य नाभिम्
यस्त्वद्धोता पूर्वो अग्ने यजीयान्द्विता च सत्ता स्वधया च शम्भुः । तस्यानु धर्म प्र यजा चिकित्वोऽथ नो धा अध्वरं देववीतौ
भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः । पुरुद्रुहो हि क्षितयो जनानां प्रति प्रतीचीर्दहतादरातीः
तपो ष्वग्ने अन्तराँ अमित्रान्तपा शंसमररुषः परस्य । तपो वसो चिकितानो अचित्तान्वि ते तिष्ठन्तामजरा अयासः
इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय । यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम्
उच्छोचिषा सहसस्पुत्र स्तुतो बृहद्वयः शशमानेषु धेहि । रेवदग्ने विश्वामित्रेषु शं योर्मर्मृज्मा ते तन्वं भूरि कृत्वः
कृधि रत्नं सुसनितर्धनानां स घेदग्ने भवसि यत्समिद्धः । स्तोतुर्दुरोणे सुभगस्य रेवत्सृप्रा करस्ना दधिषे वपूंषि
अग्निं होतारं प्र वृणे मियेधे गृत्सं कविं विश्वविदममूरम् । स नो यक्षद्देवताता यजीयान्राये वाजाय वनते मघानि
प्र ते अग्ने हविष्मतीमियर्म्यच्छा सुद्युम्नां रातिनीं घृताचीम् । प्रदक्षिणिद्देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत्
स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः । अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश्च वस्वः
भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः । स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यं यजासि
यत्त्वा होतारमनजन्मियेधे निषादयन्तो यजथाय देवाः । स त्वं नो अग्नेऽवितेह बोध्यधि श्रवांसि धेहि नस्तनूषु
अग्निमुषसमश्विना दधिक्रां व्युष्टिषु हवते वह्निरुक्थैः । सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस्ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुच्छन्
अग्ने भूरीणि तव जातवेदो देव स्वधावोऽमृतस्य नाम । याश्च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो