वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः । सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः
स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् । अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची
बभ्राणः सूनो सहसो व्यद्यौद्दधानः शुक्रा रभसा वपूंषि । श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन
पितुश्चिदूधर्जनुषा विवेद व्यस्य धारा असृजद्वि धेनाः । गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्न गुहा बभूव
पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत्पीप्यानाः । वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि पाहि
उरौ महाँ अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः । ऋतस्य योनावशयद्दमूना जामीनामग्निरपसि स्वसॄणाम्
अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः । उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः
अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम् । देवासश्चिन्मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन्
बृहन्त इद्भानवो भाऋजीकमग्निं सचन्त विद्युतो न शुक्राः । गुहेव वृद्धं सदसि स्वे अन्तरपार ऊर्वे अमृतं दुहानाः
ईळे च त्वा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः । देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः
उपक्षेतारस्तव सुप्रणीतेऽग्ने विश्वानि धन्या दधानाः । सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूँरदेवान्
आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान् । प्रति मर्ताँ अवासयो दमूना अनु देवान्रथिरो यासि साधन्
नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् । घृतप्रतीक उर्विया व्यद्यौदग्निर्विश्वानि काव्यानि विद्वान्
आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् । अस्मे रयिं बहुलं संतरुत्रं सुवाचं भागं यशसं कृधी नः
एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् । महान्ति वृष्णे सवना कृतेमा जन्मञ्जन्मन्निहितो जातवेदाः
जन्मञ्जन्मन्निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः । तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम
इमं यज्ञं सहसावन्त्वं नो देवत्रा धेहि सुक्रतो रराणः । प्र यंसि होतर्बृहतीरिषो नोऽग्ने महि द्रविणमा यजस्व
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे
वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि । द्विता होतारं मनुषश्च वाघतो धिया रथं न कुलिशः समृण्वति
स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत्पुत्र ईड्यः । हव्यवाळग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः
क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः । रुरुचानं भानुना ज्योतिषा महामत्यं न वाजं सनिष्यन्नुप ब्रुवे
आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजमृग्मियम् । रातिं भृगूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा
अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वृक्तबर्हिषः । यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिमपसाम्
पावकशोचे तव हि क्षयं परि होतर्यज्ञेषु वृक्तबर्हिषो नरः । अग्ने दुव इच्छमानास आप्यमुपासते द्रविणं धेहि तेभ्यः
आ रोदसी अपृणदा स्वर्महज्जातं यदेनमपसो अधारयन् । सो अध्वराय परि णीयते कविरत्यो न वाजसातये चनोहितः
नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम् । रथीरृतस्य बृहतो विचर्षणिरग्निर्देवानामभवत्पुरोहितः
तिस्रो यह्वस्य समिधः परिज्मनोऽग्नेरपुनन्नुशिजो अमृत्यवः । तासामेकामदधुर्मर्त्ये भुजमु लोकमु द्वे उप जामिमीयतुः
विशां कविं विश्पतिं मानुषीरिषः सं सीमकृण्वन्स्वधितिं न तेजसे । स उद्वतो निवतो याति वेविषत्स गर्भमेषु भुवनेषु दीधरत्
स जिन्वते जठरेषु प्रजज्ञिवान्वृषा चित्रेषु नानदन्न सिंहः । वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे
वैश्वानरः प्रत्नथा नाकमारुहद्दिवस्पृष्ठं भन्दमानः सुमन्मभिः । स पूर्ववज्जनयञ्जन्तवे धनं समानमज्मं पर्येति जागृविः