मम ब्रह्मेन्द्र याह्यच्छा विश्वा हरी धुरि धिष्वा रथस्य । पुरुत्रा हि विहव्यो बभूथास्मिञ्छूर सवने मादयस्व
न म इन्द्रेण सख्यं वि योषदस्मभ्यमस्य दक्षिणा दुहीत । उप ज्येष्ठे वरूथे गभस्तौ प्रायेप्राये जिगीवांसः स्याम
नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी । शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः
अपाय्यस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः । यस्मिन्निन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश्च नरः
अस्य मन्दानो मध्वो वज्रहस्तोऽहिमिन्द्रो अर्णोवृतं वि वृश्चत् । प्र यद्वयो न स्वसराण्यच्छा प्रयांसि च नदीनां चक्रमन्त
स माहिन इन्द्रो अर्णो अपां प्रैरयदहिहाच्छा समुद्रम् । अजनयत्सूर्यं विदद्गा अक्तुनाह्नां वयुनानि साधत्
सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद्दाशुषे हन्ति वृत्रम् । सद्यो यो नृभ्यो अतसाय्यो भूत्पस्पृधानेभ्यः सूर्यस्य सातौ
स सुन्वत इन्द्रः सूर्यमा देवो रिणङ्मर्त्याय स्तवान् । आ यद्रयिं गुहदवद्यमस्मै भरदंशं नैतशो दशस्यन्
स रन्धयत्सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय । दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरच्छम्बरस्य
एवा त इन्द्रोचथमहेम श्रवस्या न त्मना वाजयन्तः । अश्याम तत्साप्तमाशुषाणा ननमो वधरदेवस्य पीयोः
एवा ते गृत्समदाः शूर मन्मावस्यवो न वयुनानि तक्षुः । ब्रह्मण्यन्त इन्द्र ते नवीय इषमूर्जं सुक्षितिं सुम्नमश्युः
नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी । शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः
वयं ते वय इन्द्र विद्धि षु णः प्र भरामहे वाजयुर्न रथम् । विपन्यवो दीध्यतो मनीषा सुम्नमियक्षन्तस्त्वावतो नॄन्
त्वं न इन्द्र त्वाभिरूती त्वायतो अभिष्टिपासि जनान् । त्वमिनो दाशुषो वरूतेत्थाधीरभि यो नक्षति त्वा
स नो युवेन्द्रो जोहूत्रः सखा शिवो नरामस्तु पाता । यः शंसन्तं यः शशमानमूती पचन्तं च स्तुवन्तं च प्रणेषत्
तमु स्तुष इन्द्रं तं गृणीषे यस्मिन्पुरा वावृधुः शाशदुश्च । स वस्वः कामं पीपरदियानो ब्रह्मण्यतो नूतनस्यायोः
सो अङ्गिरसामुचथा जुजुष्वान्ब्रह्मा तूतोदिन्द्रो गातुमिष्णन् । मुष्णन्नुषसः सूर्येण स्तवानश्नस्य चिच्छिश्नथत्पूर्व्याणि
स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन्मनुषे दस्मतमः । अव प्रियमर्शसानस्य साह्वाञ्छिरो भरद्दासस्य स्वधावान्
स वृत्रहेन्द्रः कृष्णयोनीः पुरंदरो दासीरैरयद्वि । अजनयन्मनवे क्षामपश्च सत्रा शंसं यजमानस्य तूतोत्
तस्मै तवस्यमनु दायि सत्रेन्द्राय देवेभिरर्णसातौ । प्रति यदस्य वज्रं बाह्वोर्धुर्हत्वी दस्यून्पुर आयसीर्नि तारीत्
नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी । शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः
विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते । अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम्
अभिभुवेऽभिभङ्गाय वन्वतेऽषाळ्हाय सहमानाय वेधसे । तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत
सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः । वृतंचयः सहुरिर्विक्ष्वारित इन्द्रस्य वोचं प्र कृतानि वीर्या
अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो असमष्टकाव्यः । रध्रचोदः श्नथनो वीळितस्पृथुरिन्द्रः सुयज्ञ उषसः स्वर्जनत्
यज्ञेन गातुमप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः । अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्याशत
इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे । पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वमह्नाम्
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत् । स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः
अध त्विषीमाँ अभ्योजसा क्रिविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे । अधत्तान्यं जठरे प्रेमरिच्यत सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः
साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः । दाता राधः स्तुवते काम्यं वसु सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः