कङ्कतो न कङ्कतोऽथो सतीनकङ्कतः । द्वाविति प्लुषी इति न्यदृष्टा अलिप्सत
अदृष्टान्हन्त्यायत्यथो हन्ति परायती । अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती
शरासः कुशरासो दर्भासः सैर्या उत । मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्यलिप्सत
नि गावो गोष्ठे असदन्नि मृगासो अविक्षत । नि केतवो जनानां न्यदृष्टा अलिप्सत
एत उ त्ये प्रत्यदृश्रन्प्रदोषं तस्करा इव । अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतन
द्यौर्वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा । अदृष्टा विश्वदृष्टास्तिष्ठतेलयता सु कम्
ये अंस्या ये अङ्ग्याः सूचीका ये प्रकङ्कताः । अदृष्टाः किं चनेह वः सर्वे साकं नि जस्यत
उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा । अदृष्टान्सर्वाञ्जम्भयन्सर्वाश्च यातुधान्यः
उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन् । आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा
सूर्ये विषम् आ सजामि दृतिꣳ सुरावतो गृहे । सो चिन् नु न मराति नो वयम् मरामारे अस्य योजनꣳ हरिष्ठा मधु त्वा मधुला चकार
इयत्तिका शकुन्तिका सका जघास ते विषम् । सो चिन् नु न मराति नो वयम् मरामारे अस्य योजनꣳ हरिष्ठा मधु त्वा मधुला चकार
त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यम् अक्षन् । ताश् चिन् नु न मरन्ति नो वयम् मरामारे अस्य योजनꣳ हरिष्ठा मधु त्वा मधुला चकार
नवानाꣳ नवतीनाꣳ विषस्य रोपुषीणाम् । सर्वासाम् अग्रभꣳ नामारे अस्य योजनꣳ हरिष्ठा मधु त्वा मधुला चकार
त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः । तास् ते विषꣳ वि जभ्रिर उदकꣳ कुम्भिनीर् इव
इयत्तकः कुषुम्भकस् तकम् भिनद्म्य् अश्मना । ततो विषम् प्र वावृते पराचीर् अनु सꣳवतः
कुषुम्भकस् तद् अब्रवीद् गिरेः प्रवर्तमानकः । वृश्चिकस्यारसꣳ विषम् अरसꣳ वृश्चिक ते विषम्
त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि । त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः
तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः । तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे
त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः । त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते त्वं विधर्तः सचसे पुरंध्या
त्वमग्ने राजा वरुणो धृतव्रतस्त्वं मित्रो भवसि दस्म ईड्यः । त्वमर्यमा सत्पतिर्यस्य सम्भुजं त्वमंशो विदथे देव भाजयुः
त्वमग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् । त्वमाशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः
त्वमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पृक्ष ईशिषे । त्वं वातैररुणैर्यासि शंगयस्त्वं पूषा विधतः पासि नु त्मना
त्वमग्ने द्रविणोदा अरंकृते त्वं देवः सविता रत्नधा असि । त्वं भगो नृपते वस्व ईशिषे त्वं पायुर्दमे यस्तेऽविधत्
त्वामग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रमृञ्जते । त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश प्रति
त्वामग्ने पितरमिष्टिभिर्नरस्त्वां भ्रात्राय शम्या तनूरुचम् । त्वं पुत्रो भवसि यस्तेऽविधत्त्वं सखा सुशेवः पास्याधृषः
त्वमग्न ऋभुराके नमस्यस्त्वं वाजस्य क्षुमतो राय ईशिषे । त्वं वि भास्यनु दक्षि दावने त्वं विशिक्षुरसि यज्ञमातनिः
त्वमग्ने अदितिर्देव दाशुषे त्वं होत्रा भारती वर्धसे गिरा । त्वमिळा शतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती
त्वमग्ने सुभृत उत्तमं वयस्तव स्पार्हे वर्ण आ संदृशि श्रियः । त्वं वाजः प्रतरणो बृहन्नसि त्वं रयिर्बहुलो विश्वतस्पृथुः
त्वामग्न आदित्यास आस्यं त्वां जिह्वां शुचयश्चक्रिरे कवे । त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविरदन्त्याहुतम्
त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविरदन्त्याहुतम् । त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः