त्वं ताँ अग्न उभयान्वि विद्वान्वेषि प्रपित्वे मनुषो यजत्र । अभिपित्वे मनवे शास्यो भूर्मर्मृजेन्य उशिग्भिर्नाक्रः
अवोचाम निवचनान्यस्मिन्मानस्य सूनुः सहसाने अग्नौ । वयं सहस्रमृषिभिः सनेम विद्यामेषं वृजनं जीरदानुम्
अनर्वाणं वृषभं मन्द्रजिह्वं बृहस्पतिं वर्धया नव्यमर्कैः । गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः
तमृत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि । बृहस्पतिः स ह्यञ्जो वरांसि विभ्वाभवत्समृते मातरिश्वा
उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत्सवितेव प्र बाहू । अस्य क्रत्वाहन्यो यो अस्ति मृगो न भीमो अरक्षसस्तुविष्मान्
अस्य श्लोको दिवीयते पृथिव्यामत्यो न यंसद्यक्षभृद्विचेताः । मृगाणां न हेतयो यन्ति चेमा बृहस्पतेरहिमायाँ अभि द्यून्
ये त्वा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः । न दूढ्ये अनु ददासि वामं बृहस्पते चयस इत्पियारुम्
सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः । अनर्वाणो अभि ये चक्षते नोऽपीवृता अपोर्णुवन्तो अस्थुः
सं यं स्तुभोऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः । स विद्वाँ उभयं चष्टे अन्तर्बृहस्पतिस्तर आपश्च गृध्रः
एवा महस्तुविजातस्तुविष्मान्बृहस्पतिर्वृषभो धायि देवः । स न स्तुतो वीरवद्धातु गोमद्विद्यामेषं वृजनं जीरदानुम्
कङ्कतो न कङ्कतोऽथो सतीनकङ्कतः । द्वाविति प्लुषी इति न्यदृष्टा अलिप्सत
अदृष्टान्हन्त्यायत्यथो हन्ति परायती । अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती
शरासः कुशरासो दर्भासः सैर्या उत । मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्यलिप्सत
नि गावो गोष्ठे असदन्नि मृगासो अविक्षत । नि केतवो जनानां न्यदृष्टा अलिप्सत
एत उ त्ये प्रत्यदृश्रन्प्रदोषं तस्करा इव । अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतन
द्यौर्वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा । अदृष्टा विश्वदृष्टास्तिष्ठतेलयता सु कम्
ये अंस्या ये अङ्ग्याः सूचीका ये प्रकङ्कताः । अदृष्टाः किं चनेह वः सर्वे साकं नि जस्यत
उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा । अदृष्टान्सर्वाञ्जम्भयन्सर्वाश्च यातुधान्यः
उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन् । आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा
सूर्ये विषम् आ सजामि दृतिꣳ सुरावतो गृहे । सो चिन् नु न मराति नो वयम् मरामारे अस्य योजनꣳ हरिष्ठा मधु त्वा मधुला चकार
इयत्तिका शकुन्तिका सका जघास ते विषम् । सो चिन् नु न मराति नो वयम् मरामारे अस्य योजनꣳ हरिष्ठा मधु त्वा मधुला चकार
त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यम् अक्षन् । ताश् चिन् नु न मरन्ति नो वयम् मरामारे अस्य योजनꣳ हरिष्ठा मधु त्वा मधुला चकार
नवानाꣳ नवतीनाꣳ विषस्य रोपुषीणाम् । सर्वासाम् अग्रभꣳ नामारे अस्य योजनꣳ हरिष्ठा मधु त्वा मधुला चकार
त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः । तास् ते विषꣳ वि जभ्रिर उदकꣳ कुम्भिनीर् इव
इयत्तकः कुषुम्भकस् तकम् भिनद्म्य् अश्मना । ततो विषम् प्र वावृते पराचीर् अनु सꣳवतः
कुषुम्भकस् तद् अब्रवीद् गिरेः प्रवर्तमानकः । वृश्चिकस्यारसꣳ विषम् अरसꣳ वृश्चिक ते विषम्
त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि । त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः
तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः । तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे
त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः । त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते त्वं विधर्तः सचसे पुरंध्या
त्वमग्ने राजा वरुणो धृतव्रतस्त्वं मित्रो भवसि दस्म ईड्यः । त्वमर्यमा सत्पतिर्यस्य सम्भुजं त्वमंशो विदथे देव भाजयुः