प्रो अश्विनाववसे कृणुध्वं प्र पूषणं स्वतवसो हि सन्ति । अद्वेषो विष्णुर्वात ऋभुक्षा अच्छा सुम्नाय ववृतीय देवान्
इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयाः । नि या देवेषु यतते वसूयुर्विद्यामेषं वृजनं जीरदानुम्
पितुं नु स्तोषं महो धर्माणं तविषीम् । यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत्
स्वादो पितो मधो पितो वयं त्वा ववृमहे । अस्माकमविता भव
उप नः पितवा चर शिवः शिवाभिरूतिभिः । मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः
तव त्ये पितो रसा रजांस्यनु विष्ठिताः । दिवि वाता इव श्रिताः
तव त्ये पितो ददतस्तव स्वादिष्ठ ते पितो । प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते
त्वे पितो महानां देवानां मनो हितम् । अकारि चारु केतुना तवाहिमवसावधीत्
यददो पितो अजगन्विवस्व पर्वतानाम् । अत्रा चिन्नो मधो पितोऽरं भक्षाय गम्याः
यदपामोषधीनां परिंशमारिशामहे । वातापे पीव इद्भव
यत्ते सोम गवाशिरो यवाशिरो भजामहे । वातापे पीव इद्भव
करम्भ ओषधे भव पीवो वृक्क उदारथिः । वातापे पीव इद्भव
तं त्वा वयं पितो वचोभिर्गावो न हव्या सुषूदिम । देवेभ्यस्त्वा सधमादमस्मभ्यं त्वा सधमादम्
समिद्धो अद्य राजसि देवो देवैः सहस्रजित् । दूतो हव्या कविर्वह
तनूनपादृतं यते मध्वा यज्ञः समज्यते । दधत्सहस्रिणीरिषः
आजुह्वानो न ईड्यो देवाँ आ वक्षि यज्ञियान् । अग्ने सहस्रसा असि
प्राचीनं बर्हिरोजसा सहस्रवीरमस्तृणन् । यत्रादित्या विराजथ
विराट् सम्राड्विभ्वीः प्रभ्वीर्बह्वीश्च भूयसीश्च याः । दुरो घृतान्यक्षरन्
सुरुक्मे हि सुपेशसाधि श्रिया विराजतः । उषासावेह सीदताम्
प्रथमा हि सुवाचसा होतारा दैव्या कवी । यज्ञं नो यक्षतामिमम्
भारतीळे सरस्वति या वः सर्वा उपब्रुवे । ता नश्चोदयत श्रिये
त्वष्टा रूपाणि हि प्रभुः पशून्विश्वान्समानजे । तेषां न स्फातिमा यज
उप त्मन्या वनस्पते पाथो देवेभ्यः सृज । अग्निर्हव्यानि सिष्वदत्
पुरोगा अग्निर्देवानां गायत्रेण समज्यते । स्वाहाकृतीषु रोचते
अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम
अग्ने त्वं पारया नव्यो अस्मान्स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः
अग्ने त्वमस्मद्युयोध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः । पुनरस्मभ्यं सुविताय देव क्षां विश्वेभिरमृतेभिर्यजत्र
पाहि नो अग्ने पायुभिरजस्रैरुत प्रिये सदन आ शुशुक्वान् । मा ते भयं जरितारं यविष्ठ नूनं विदन्मापरं सहस्वः
मा नो अग्नेऽव सृजो अघायाविष्यवे रिपवे दुच्छुनायै । मा दत्वते दशते मादते नो मा रीषते सहसावन्परा दाः
वि घ त्वावाँ ऋतजात यंसद्गृणानो अग्ने तन्वे वरूथम् । विश्वाद्रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट्