आ तिष्ठतं सुवृतं यो रथो वामनु व्रतानि वर्तते हविष्मान् । येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च
मा वां वृको मा वृकीरा दधर्षीन्मा परि वर्क्तमुत माति धक्तम् । अयं वां भागो निहित इयं गीर्दस्राविमे वां निधयो मधूनाम्
युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवतेऽवसे हविष्मान् । दिशं न दिष्टामृजूयेव यन्ता मे हवं नासत्योप यातम्
अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि । एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम्
ता वामद्य तावपरं हुवेमोच्छन्त्यामुषसि वह्निरुक्थैः । नासत्या कुह चित्सन्तावर्यो दिवो नपाता सुदास्तराय
अस्मे ऊ षु वृषणा मादयेथामुत्पणीँर्हतमूर्म्या मदन्ता । श्रुतं मे अच्छोक्तिभिर्मतीनामेष्टा नरा निचेतारा च कर्णैः
श्रिये पूषन्निषुकृतेव देवा नासत्या वहतुं सूर्यायाः । वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः
अस्मे सा वां माध्वी रातिरस्तु स्तोमं हिनोतं मान्यस्य कारोः । अनु यद्वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति
एष वां स्तोमो अश्विनावकारि मानेभिर्मघवाना सुवृक्ति । यातं वर्तिस्तनयाय त्मने चागस्त्ये नासत्या मदन्ता
अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि । एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम्
कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद । विश्वं त्मना बिभृतो यद्ध नाम वि वर्तेते अहनी चक्रियेव
भूरिं द्वे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते । नित्यं न सूनुं पित्रोरुपस्थे द्यावा रक्षतं पृथिवी नो अभ्वात्
अनेहो दात्रमदितेरनर्वं हुवे स्वर्वदवधं नमस्वत् । तद्रोदसी जनयतं जरित्रे द्यावा रक्षतं पृथिवी नो अभ्वात्
अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे । उभे देवानामुभयेभिरह्नां द्यावा रक्षतं पृथिवी नो अभ्वात्
संगच्छमाने युवती समन्ते स्वसारा जामी पित्रोरुपस्थे । अभिजिघ्रन्ती भुवनस्य नाभिं द्यावा रक्षतं पृथिवी नो अभ्वात्
उर्वी सद्मनी बृहती ऋतेन हुवे देवानामवसा जनित्री । दधाते ये अमृतं सुप्रतीके द्यावा रक्षतं पृथिवी नो अभ्वात्
उर्वी पृथ्वी बहुले दूरेअन्ते उप ब्रुवे नमसा यज्ञे अस्मिन् । दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतं पृथिवी नो अभ्वात्
देवान्वा यच्चकृमा कच्चिदागः सखायं वा सदमिज्जास्पतिं वा । इयं धीर्भूया अवयानमेषां द्यावा रक्षतं पृथिवी नो अभ्वात्
उभा शंसा नर्या मामविष्टामुभे मामूती अवसा सचेताम् । भूरि चिदर्यः सुदास्तरायेषा मदन्त इषयेम देवाः
ऋतं दिवे तदवोचं पृथिव्या अभिश्रावाय प्रथमं सुमेधाः । पातामवद्याद्दुरितादभीके पिता माता च रक्षतामवोभिः
इदं द्यावापृथिवी सत्यमस्तु पितर्मातर्यदिहोपब्रुवे वाम् । भूतं देवानामवमे अवोभिर्विद्यामेषं वृजनं जीरदानुम्
आ न इळाभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु । अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा
आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः । भुवन्यथा नो विश्वे वृधासः करन्सुषाहा विथुरं न शवः
प्रेष्ठं वो अतिथिं गृणीषेऽग्निं शस्तिभिस्तुर्वणिः सजोषाः । असद्यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः
उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः । समाने अहन्विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन्
उत नोऽहिर्बुध्न्यो मयस्कः शिशुं न पिप्युषीव वेति सिन्धुः । येन नपातमपां जुनाम मनोजुवो वृषणो यं वहन्ति
उत न ईं त्वष्टा गन्त्वच्छा स्मत्सूरिभिरभिपित्वे सजोषाः । आ वृत्रहेन्द्रश्चर्षणिप्रास्तुविष्टमो नरां न इह गम्याः
उत न ईं मतयोऽश्वयोगाः शिशुं न गावस्तरुणं रिहन्ति । तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरां नसन्त
उत न ईं मरुतो वृद्धसेनाः स्मद्रोदसी समनसः सदन्तु । पृषदश्वासोऽवनयो न रथा रिशादसो मित्रयुजो न देवाः
प्र नु यदेषां महिना चिकित्रे प्र युञ्जते प्रयुजस्ते सुवृक्ति । अध यदेषां सुदिने न शरुर्विश्वमेरिणं प्रुषायन्त सेनाः