ये नाकस्याधि रोचने दिवि देवास आसते । मरुद्भिरग्न आ गहि
य ईङ्खयन्ति पर्वतान्तिरः समुद्रमर्णवम् । मरुद्भिरग्न आ गहि
आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमोजसा । मरुद्भिरग्न आ गहि
अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु । मरुद्भिरग्न आ गहि
अयं देवाय जन्मने स्तोमो विप्रेभिरासया । अकारि रत्नधातमः
य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी । शमीभिर्यज्ञमाशत
तक्षन्नासत्याभ्यां परिज्मानं सुखं रथम् । तक्षन्धेनुं सबर्दुघाम्
युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः । ऋभवो विष्ट्यक्रत
सं वो मदासो अग्मतेन्द्रेण च मरुत्वता । आदित्येभिश्च राजभिः
उत त्यं चमसं नवं त्वष्टुर्देवस्य निष्कृतम् । अकर्त चतुरः पुनः
ते नो रत्नानि धत्तन त्रिरा साप्तानि सुन्वते । एकमेकं सुशस्तिभिः
अधारयन्त वह्नयोऽभजन्त सुकृत्यया । भागं देवेषु यज्ञियम्
इहेन्द्राग्नी उप ह्वये तयोरित्स्तोममुश्मसि । ता सोमं सोमपातमा
ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः । ता गायत्रेषु गायत
ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे । सोमपा सोमपीतये
उग्रा सन्ता हवामह उपेदं सवनं सुतम् । इन्द्राग्नी एह गच्छताम्
ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम् । अप्रजाः सन्त्वत्रिणः
तेन सत्येन जागृतमधि प्रचेतुने पदे । इन्द्राग्नी शर्म यच्छतम्
प्रातर्युजा वि बोधयाश्विनावेह गच्छताम् । अस्य सोमस्य पीतये
या सुरथा रथीतमोभा देवा दिविस्पृशा । अश्विना ता हवामहे
या वां कशा मधुमत्यश्विना सूनृतावती । तया यज्ञं मिमिक्षतम्
नहि वामस्ति दूरके यत्रा रथेन गच्छथः । अश्विना सोमिनो गृहम्
हिरण्यपाणिमूतये सवितारमुप ह्वये । स चेत्ता देवता पदम्
अपां नपातमवसे सवितारमुप स्तुहि । तस्य व्रतान्युश्मसि
विभक्तारं हवामहे वसोश्चित्रस्य राधसः । सवितारं नृचक्षसम्
सखाय आ नि षीदत सविता स्तोम्यो नु नः । दाता राधांसि शुम्भति
अग्ने पत्नीरिहा वह देवानामुशतीरुप । त्वष्टारं सोमपीतये
आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम् । वरूत्रीं धिषणां वह
अभि नो देवीरवसा महः शर्मणा नृपत्नीः । अच्छिन्नपत्राः सचन्ताम्
इहेन्द्राणीमुप ह्वये वरुणानीं स्वस्तये । अग्नायीं सोमपीतये