अगस्त्यः खनमानः खनित्रैः प्रजामपत्यं बलमिच्छमानः । उभौ वर्णावृषिरुग्रः पुपोष सत्या देवेष्वाशिषो जगाम
युवो रजांसि सुयमासो अश्वा रथो यद्वां पर्यर्णांसि दीयत् । हिरण्यया वां पवयः प्रुषायन्मध्वः पिबन्ता उषसः सचेथे
युवमत्यस्याव नक्षथो यद्विपत्मनो नर्यस्य प्रयज्योः । स्वसा यद्वां विश्वगूर्ती भराति वाजायेट्टे मधुपाविषे च
युवं पय उस्रियायामधत्तं पक्वमामायामव पूर्व्यं गोः । अन्तर्यद्वनिनो वामृतप्सू ह्वारो न शुचिर्यजते हविष्मान्
युवं ह घर्मं मधुमन्तमत्रयेऽपो न क्षोदोऽवृणीतमेषे । तद्वां नरावश्विना पश्वइष्टी रथ्येव चक्रा प्रति यन्ति मध्वः
आ वां दानाय ववृतीय दस्रा गोरोहेण तौग्र्यो न जिव्रिः । अपः क्षोणी सचते माहिना वां जूर्णो वामक्षुरंहसो यजत्रा
नि यद्युवेथे नियुतः सुदानू उप स्वधाभिः सृजथः पुरंधिम् । प्रेषद्वेषद्वातो न सूरिरा महे ददे सुव्रतो न वाजम्
वयं चिद्धि वां जरितारः सत्या विपन्यामहे वि पणिर्हितावान् । अधा चिद्धि ष्माश्विनावनिन्द्या पाथो हि ष्मा वृषणावन्तिदेवम्
युवां चिद्धि ष्माश्विनावनु द्यून्विरुद्रस्य प्रस्रवणस्य सातौ । अगस्त्यो नरां नृषु प्रशस्तः काराधुनीव चितयत्सहस्रैः
प्र यद्वहेथे महिना रथस्य प्र स्यन्द्रा याथो मनुषो न होता । धत्तं सूरिभ्य उत वा स्वश्व्यं नासत्या रयिषाचः स्याम
तं वां रथं वयमद्या हुवेम स्तोमैरश्विना सुविताय नव्यम् । अरिष्टनेमिं परि द्यामियानं विद्यामेषं वृजनं जीरदानुम्
कदु प्रेष्ठाविषां रयीणामध्वर्यन्ता यदुन्निनीथो अपाम् । अयं वां यज्ञो अकृत प्रशस्तिं वसुधिती अवितारा जनानाम्
आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः । मनोजुवो वृषणो वीतपृष्ठा एह स्वराजो अश्विना वहन्तु
आ वां रथोऽवनिर्न प्रवत्वान्सृप्रवन्धुरः सुविताय गम्याः । वृष्ण स्थातारा मनसो जवीयानहम्पूर्वो यजतो धिष्ण्या यः
इहेह जाता समवावशीतामरेपसा तन्वा नामभिः स्वैः । जिष्णुर्वामन्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे
प्र वां निचेरुः ककुहो वशाँ अनु पिशङ्गरूपः सदनानि गम्याः । हरी अन्यस्य पीपयन्त वाजैर्मथ्रा रजांस्यश्विना वि घोषैः
प्र वां शरद्वान्वृषभो न निष्षाट् पूर्वीरिषश्चरति मध्व इष्णन् । एवैरन्यस्य पीपयन्त वाजैर्वेषन्तीरूर्ध्वा नद्यो न आगुः
असर्जि वां स्थविरा वेधसा गीर्बाळ्हे अश्विना त्रेधा क्षरन्ती । उपस्तुताववतं नाधमानं यामन्नयामञ्छृणुतं हवं मे
उत स्या वां रुशतो वप्ससो गीस्त्रिबर्हिषि सदसि पिन्वते नॄन् । वृषा वां मेघो वृषणा पीपाय गोर्न सेके मनुषो दशस्यन्
युवां पूषेवाश्विना पुरंधिरग्निमुषां न जरते हविष्मान् । हुवे यद्वां वरिवस्या गृणानो विद्यामेषं वृजनं जीरदानुम्
अभूदिदं वयुनमो षु भूषता रथो वृषण्वान्मदता मनीषिणः । धियंजिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते शुचिव्रता
इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा । पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसमुप याथो अश्विना
किमत्र दस्रा कृणुथः किमासाथे जनो यः कश्चिदहविर्महीयते । अति क्रमिष्टं जुरतं पणेरसुं ज्योतिर्विप्राय कृणुतं वचस्यवे
जम्भयतमभितो रायतः शुनो हतं मृधो विदथुस्तान्यश्विना । वाचंवाचं जरितू रत्निनीं कृतमुभा शंसं नासत्यावतं मम
युवमेतं चक्रथुः सिन्धुषु प्लवमात्मन्वन्तं पक्षिणं तौग्र्याय कम् । येन देवत्रा मनसा निरूहथुः सुपप्तनी पेतथुः क्षोदसो महः
अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि प्रविद्धम् । चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति
कः स्विद्वृक्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत् । पर्णा मृगस्य पतरोरिवारभ उदश्विना ऊहथुः श्रोमताय कम्
तद्वां नरा नासत्यावनु ष्याद्यद्वां मानास उचथमवोचन् । अस्मादद्य सदसः सोम्यादा विद्यामेषं वृजनं जीरदानुम्
तं युञ्जाथां मनसो यो जवीयान्त्रिवन्धुरो वृषणा यस्त्रिचक्रः । येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर्न पर्णैः
सुवृद्रथो वर्तते यन्नभि क्षां यत्तिष्ठथः क्रतुमन्तानु पृक्षे । वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे