अम्यक्सा त इन्द्र ऋष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति । अग्निश्चिद्धि ष्मातसे शुशुक्वानापो न द्वीपं दधति प्रयांसि
त्वं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम् । स्तुतश्च यास्ते चकनन्त वायो स्तनं न मध्वः पीपयन्त वाजैः
त्वे राय इन्द्र तोशतमाः प्रणेतारः कस्य चिदृतायोः । ते षु णो मरुतो मृळयन्तु ये स्मा पुरा गातूयन्तीव देवाः
प्रति प्र याहीन्द्र मीळ्हुषो नॄन्महः पार्थिवे सदने यतस्व । अध यदेषां पृथुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः
प्रति घोराणामेतानामयासां मरुतां शृण्व आयतामुपब्दिः । ये मर्त्यं पृतनायन्तमूमैरृणावानं न पतयन्त सर्गैः
त्वं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः । स्तवानेभि स्तवसे देव देवैर्विद्यामेषं वृजनं जीरदानुम्
न नूनमस्ति नो श्वः कस्तद्वेद यदद्भुतम् । अन्यस्य चित्तमभि संचरेण्यमुताधीतं वि नश्यति
किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव । तेभिः कल्पस्व साधुया मा नः समरणे वधीः
किं नो भ्रातरगस्त्य सखा सन्नति मन्यसे । विद्मा हि ते यथा मनोऽस्मभ्यमिन्न दित्ससि
अरं कृण्वन्तु वेदिं समग्निमिन्धतां पुरः । तत्रामृतस्य चेतनं यज्ञं ते तनवावहै
त्वमीशिषे वसुपते वसूनां त्वं मित्राणां मित्रपते धेष्ठः । इन्द्र त्वं मरुद्भिः सं वदस्वाध प्राशान ऋतुथा हवींषि
प्रति व एना नमसाहमेमि सूक्तेन भिक्षे सुमतिं तुराणाम् । रराणता मरुतो वेद्याभिर्नि हेळो धत्त वि मुचध्वमश्वान्
एष व स्तोमो मरुतो नमस्वान्हृदा तष्टो मनसा धायि देवाः । उपेमा यात मनसा जुषाणा यूयं हि ष्ठा नमस इद्वृधासः
स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा शम्भविष्ठः । ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा
अस्मादहं तविषादीषमाण इन्द्राद्भिया मरुतो रेजमानः । युष्मभ्यं हव्या निशितान्यासन्तान्यारे चकृमा मृळता नः
येन मानासश्चितयन्त उस्रा व्युष्टिषु शवसा शश्वतीनाम् । स नो मरुद्भिर्वृषभ श्रवो धा उग्र उग्रेभि स्थविरः सहोदाः
त्वं पाहीन्द्र सहीयसो नॄन्भवा मरुद्भिरवयातहेळाः । सुप्रकेतेभिः सासहिर्दधानो विद्यामेषं वृजनं जीरदानुम्
चित्रो वोऽस्तु यामश्चित्र ऊती सुदानवः । मरुतो अहिभानवः
आरे सा वः सुदानवो मरुत ऋञ्जती शरुः । आरे अश्मा यमस्यथ
तृणस्कन्दस्य नु विशः परि वृङ्क्त सुदानवः । ऊर्ध्वान्नः कर्त जीवसे
गायत्साम नभन्यं यथा वेरर्चाम तद्वावृधानं स्वर्वत् । गावो धेनवो बर्हिष्यदब्धा आ यत्सद्मानं दिव्यं विवासान्
अर्चद्वृषा वृषभिः स्वेदुहव्यैर्मृगो नाश्नो अति यज्जुगुर्यात् । प्र मन्दयुर्मनां गूर्त होता भरते मर्यो मिथुना यजत्रः
नक्षद्धोता परि सद्म मिता यन्भरद्गर्भमा शरदः पृथिव्याः । क्रन्ददश्वो नयमानो रुवद्गौरन्तर्दूतो न रोदसी चरद्वाक्
ता कर्माषतरास्मै प्र च्यौत्नानि देवयन्तो भरन्ते । जुजोषदिन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः
तमु ष्टुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः । प्रतीचश्चिद्योधीयान्वृषण्वान्ववव्रुषश्चित्तमसो विहन्ता
प्र यदित्था महिना नृभ्यो अस्त्यरं रोदसी कक्ष्ये नास्मै । सं विव्य इन्द्रो वृजनं न भूमा भर्ति स्वधावाँ ओपशमिव द्याम्
समत्सु त्वा शूर सतामुराणं प्रपथिन्तमं परितंसयध्यै । सजोषस इन्द्रं मदे क्षोणीः सूरिं चिद्ये अनुमदन्ति वाजैः
एवा हि ते शं सवना समुद्र आपो यत्त आसु मदन्ति देवीः । विश्वा ते अनु जोष्या भूद्गौः सूरीँश्चिद्यदि धिषा वेषि जनान्
असाम यथा सुषखाय एन स्वभिष्टयो नरां न शंसैः । असद्यथा न इन्द्रो वन्दनेष्ठास्तुरो न कर्म नयमान उक्था
विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः । मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः