तमित्पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यदग्रभीत् । न मृष्यते प्रथमं नापरं वचोऽस्य क्रत्वा सचते अप्रदृपितः
तमिद्गच्छन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शृणवद्वचांसि मे । पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोतिः शिशुरादत्त सं रभः
उपस्थायं चरति यत्समारत सद्यो जातस्तत्सार युज्येभिः । अभि श्वान्तं मृशते नान्द्ये मुदे यदीं गच्छन्त्युशतीरपिष्ठितम्
स ईं मृगो अप्यो वनर्गुरुप त्वच्युपमस्यां नि धायि । व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वाँ ऋतचिद्धि सत्यः
त्रिमूर्धानं सप्तरश्मिं गृणीषेऽनूनमग्निं पित्रोरुपस्थे । निषत्तमस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम्
उक्षा महाँ अभि ववक्ष एने अजरस्तस्थावितऊतिरृष्वः । उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य
समानं वत्समभि संचरन्ती विष्वग्धेनू वि चरतः सुमेके । अनपवृज्याँ अध्वनो मिमाने विश्वान्केताँ अधि महो दधाने
धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम् । सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन्
दिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे । पुरुत्रा यदभवत्सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः
कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः । उभे यत्तोके तनये दधाना ऋतस्य सामन्रणयन्त देवाः
बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः । पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तन्वं वन्दे अग्ने
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् । ररक्ष तान्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः
यो नो अग्ने अररिवाँ अघायुररातीवा मर्चयति द्वयेन । मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः
उत वा यः सहस्य प्रविद्वान्मर्तो मर्तं मर्चयति द्वयेन । अतः पाहि स्तवमान स्तुवन्तमग्ने माकिर्नो दुरिताय धायीः
मथीद्यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् । नि यं दधुर्मनुष्यासु विक्षु स्वर्ण चित्रं वपुषे विभावम्
ददानमिन्न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन् । जुषन्त विश्वान्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः
नित्ये चिन्नु यं सदने जगृभ्रे प्रशस्तिभिर्दधिरे यज्ञियासः । प्र सू नयन्त गृभयन्त इष्टावश्वासो न रथ्यो रारहाणाः
पुरूणि दस्मो नि रिणाति जम्भैराद्रोचते वन आ विभावा । आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु द्यून्
न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति । अन्धा अपश्या न दभन्नभिख्या नित्यास ईं प्रेतारो अरक्षन्
महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ । उप ध्रजन्तमद्रयो विधन्नित्
स यो वृषा नरां न रोदस्योः श्रवोभिरस्ति जीवपीतसर्गः । प्र यः सस्राणः शिश्रीत योनौ
आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्वा । सूरो न रुरुक्वाञ्छतात्मा
अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात् । होता यजिष्ठो अपां सधस्थे
अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या । मर्तो यो अस्मै सुतुको ददाश
पुरु त्वा दाश्वान्वोचेऽरिरग्ने तव स्विदा । तोदस्येव शरण आ महस्य
व्यनिनस्य धनिनः प्रहोषे चिदररुषः । कदा चन प्रजिगतो अदेवयोः
स चन्द्रो विप्र मर्त्यो महो व्राधन्तमो दिवि । प्रप्रेत्ते अग्ने वनुषः स्याम
मित्रं न यं शिम्या गोषु गव्यवः स्वाध्यो विदथे अप्सु जीजनन् । अरेजेतां रोदसी पाजसा गिरा प्रति प्रियं यजतं जनुषामवः
यद्ध त्यद्वां पुरुमीळ्हस्य सोमिनः प्र मित्रासो न दधिरे स्वाभुवः । अध क्रतुं विदतं गातुमर्चत उत श्रुतं वृषणा पस्त्यावतः
आ वां भूषन्क्षितयो जन्म रोदस्योः प्रवाच्यं वृषणा दक्षसे महे । यदीमृताय भरथो यदर्वते प्र होत्रया शिम्या वीथो अध्वरम्