युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना । युवं भुज्युमर्णसो निः समुद्राद्विभिरूहथुरृज्रेभिरश्वैः
अजोहवीदश्विना तौग्र्यो वां प्रोळ्हः समुद्रमव्यथिर्जगन्वान् । निष्टमूहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति
अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुञ्चतं वृकस्य । वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण
शतं मेषान्वृक्ये मामहानं तमः प्रणीतमशिवेन पित्रा । आक्षी ऋज्राश्वे अश्विनावधत्तं ज्योतिरन्धाय चक्रथुर्विचक्षे
शुनमन्धाय भरमह्वयत्सा वृकीरश्विना वृषणा नरेति । जारः कनीन इव चक्षदान ऋज्राश्वः शतमेकं च मेषान्
मही वामूतिरश्विना मयोभूरुत स्रामं धिष्ण्या सं रिणीथः । अथा युवामिदह्वयत्पुरंधिरागच्छतं सीं वृषणाववोभिः
अधेनुं दस्रा स्तर्यं विषक्तामपिन्वतं शयवे अश्विना गाम् । युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य योषाम्
यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा । अभि दस्युं बकुरेणा धमन्तोरु ज्योतिश्चक्रथुरार्याय
* आथर्वणायाश्विना दधीचेऽश्व्यं शिरः प्रत्यैरयतम् । स वां मधु प्र वोचदृतायन्त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वाम्
सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना प्रावतं मे । अस्मे रयिं नासत्या बृहन्तमपत्यसाचं श्रुत्यं रराथाम्
हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम् । त्रिधा ह श्यावमश्विना विकस्तमुज्जीवस ऐरयतं सुदानू
एतानि वामश्विना वीर्याणि प्र पूर्व्याण्यायवोऽवोचन् । ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथमा वदेम
आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववाँ यात्वर्वाङ् । यो मर्त्यस्य मनसो जवीयान्त्रिवन्धुरो वृषणा वातरंहाः
त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातमर्वाक् । पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे
प्रवद्यामना सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः । किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः
आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतंगाः । ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति
आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहिता सूर्यस्य । परि वामश्वा वपुषः पतंगा वयो वहन्त्वरुषा अभीके
उद्वन्दनमैरतं दंसनाभिरुद्रेभं दस्रा वृषणा शचीभिः । निष्टौग्र्यं पारयथः समुद्रात्पुनश्च्यवानं चक्रथुर्युवानम्
युवमत्रयेऽवनीताय तप्तमूर्जमोमानमश्विनावधत्तम् । युवं कण्वायापिरिप्ताय चक्षुः प्रत्यधत्तं सुष्टुतिं जुजुषाणा
युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय । अमुञ्चतं वर्तिकामंहसो निः प्रति जङ्घां विश्पलाया अधत्तम्
युवं श्वेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्वम् । जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वृषणं वीड्वङ्गम्
ता वां नरा स्ववसे सुजाता हवामहे अश्विना नाधमानाः । आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम्
आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः । हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ
आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे । सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधामभि प्रयः
ऊर्ध्वा धीतिः प्रत्यस्य प्रयामन्यधायि शस्मन्समयन्त आ दिशः । स्वदामि घर्मं प्रति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत्
सं यन्मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे । युवोरह प्रवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम्
युवं भुज्युं भुरमाणं विभिर्गतं स्वयुक्तिभिर्निवहन्ता पितृभ्य आ । यासिष्टं वर्तिर्वृषणा विजेन्यं दिवोदासाय महि चेति वामवः
युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम् । आ वां पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवां पती
युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये । युवं शयोरवसं पिप्यथुर्गवि प्र दीर्घेण वन्दनस्तार्यायुषा
युवं वन्दनं निरृतं जरण्यया रथं न दस्रा करणा समिन्वथः । क्षेत्रादा विप्रं जनथो विपन्यया प्र वामत्र विधते दंसना भुवत्