परावतꣳ नासत्यानुदेथाम् उच्चाबुध्नꣳ चक्रथुर् जिह्मबारम् । क्षरन्न् आपो न पायनाय राये सहस्राय तृष्यते गोतमस्य
जुजुरुषो नासत्योत वव्रिम् प्रामुञ्चतꣳ द्रापिम् इव च्यवानात् । प्रातिरतꣳ जहितस्यायुर् दस्राद् इत् पतिम् अकृणुतꣳ कनीनाम्
तद् वाꣳ नरा शꣳस्यꣳ राध्यꣳ चाभिष्टिमन् नासत्या वरूथम् । यद् विद्वाꣳसा निधिम् इवापगूळ्हम् उद् दर्शताद् ऊपथुर् वन्दनाय
तद् वाꣳ नरा सनये दꣳस उग्रम् आविष् कृणोमि तन्यतुर् न वृष्टिम् । दध्यङ् ह यन् मध्व् आथर्वणो वाम् अश्वस्य शीर्ष्णा प्र यद् ईम् उवाच
अजोहवीन् नासत्या करा वाम् महे यामन् पुरुभुजा पुरꣳधिः । श्रुतꣳ तच् छासुर् इव वध्रिमत्या हिरण्यहस्तम् अश्विनाव् अदत्तम्
आस्नो वृकस्य वर्तिकाम् अभीके युवꣳ नरा नासत्यामुमुक्तम् । उतो कविम् पुरुभुजा युवꣳ ह कृपमाणम् अकृणुतꣳ विचक्षे
चरित्रꣳ हि वेर् इवाच्छेदि पर्णम् आजा खेलस्य परितक्म्यायाम् । सद्यो जङ्घाम् आयसीꣳ विश्पलायै धने हिते सर्तवे प्रत्य् अधत्तम्
शतम् मेषान् वृक्ये चक्षदानम् ऋज्राश्वꣳ तम् पितान्धꣳ चकार । तस्मा अक्षी नासत्या विचक्ष आधत्तꣳ दस्रा भिषजाव् अनर्वन्
आ वाꣳ रथꣳ दुहिता सूर्यस्य कार्ष्मेवातिष्ठद् अर्वता जयन्ती । विश्वे देवा अन्व् अमन्यन्त हृद्भिः सम् उ श्रिया नासत्या सचेथे
यद् अयातꣳ दिवोदासाय वर्तिर् भरद्वाजायाश्विना हयन्ता । रेवद् उवाह सचनो रथो वाꣳ वृषभश् च शिꣳशुमारश् च युक्ता
रयिꣳ सुक्षत्रꣳ स्वपत्यम् आयुः सुवीर्यꣳ नासत्या वहन्ता । आ जह्नावीꣳ समनसोप वाजैस् त्रिर् अह्नो भागꣳ दधतीम् अयातम्
परिविष्टꣳ जाहुषꣳ विश्वतः सीꣳ सुगेभिर् नक्तम् ऊहथू रजोभिः । विभिन्दुना नासत्या रथेन वि पर्वताꣳ अजरयू अयातम्
एकस्या वस्तोर् आवतꣳ रणाय वशम् अश्विना सनये सहस्रा । निर् अहतꣳ दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणाव् अरातीः
शरस्य चिद् आर्चत्कस्यावताद् आ नीचाद् उच्चा चक्रथुः पातवे वाः । शयवे चिन् नासत्या शचीभिर् जसुरये स्तर्यम् पिप्यथुर् गाम्
अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः । पशुꣳ न नष्टम् इव दर्शनाय विष्णाप्वꣳ ददथुर् विश्वकाय
दश रात्रीर् अशिवेना नव द्यून् अवनद्धꣳ श्नथितम् अप्स्व् अ१न्तः । विप्रुतꣳ रेभम् उदनि प्रवृक्तम् उन् निन्यथुः सोमम् इव स्रुवेण
प्र वाꣳ दꣳसाꣳस्य् अश्विनाव् अवोचम् अस्य पतिः स्याꣳ सुगवः सुवीरः । उत पश्यन्न् अश्नुवन् दीर्घम् आयुर् अस्तम् इवेज् जरिमाणꣳ जगम्याम्
मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् । बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः
यो वामश्विना मनसो जवीयान्रथः स्वश्वो विश आजिगाति । येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम्
ऋषिं नरावंहसः पाञ्चजन्यमृबीसादत्रिं मुञ्चथो गणेन । मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता
अश्वं न गूळ्हमश्विना दुरेवैरृषिं नरा वृषणा रेभमप्सु । सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कृतानि
सुषुप्वांसं न निरृतेरुपस्थे सूर्यं न दस्रा तमसि क्षियन्तम् । शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय
तद्वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन् । शफादश्वस्य वाजिनो जनाय शतं कुम्भाँ असिञ्चतं मधूनाम्
युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर्विश्वकाय । घोषायै चित्पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनावदत्तम्
युवं श्यावाय रुशतीमदत्तं महः क्षोणस्याश्विना कण्वाय । प्रवाच्यं तद्वृषणा कृतं वां यन्नार्षदाय श्रवो अध्यधत्तम्
पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम् । सहस्रसां वाजिनमप्रतीतमहिहनं श्रवस्यं तरुत्रम्
एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः । यद्वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम्
सूनोर्मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता । अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम्
कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा । हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन्
युवं च्यवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः । युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत