इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् । रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय मृळ
मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् । मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः
मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदमित्त्वा हवामहे
उप ते स्तोमान्पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे । भद्रा हि ते सुमतिर्मृळयत्तमाथा वयमव इत्ते वृणीमहे
आरे ते गोघ्नमुत पूरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु । मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः
अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो मरुत्वान् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च
सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् । यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम्
भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः । नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः
तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार । यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै
तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे । अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सं भरन्ति
अद्या देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः
नासत्याभ्यां बर्हिरिव प्र वृञ्जे स्तोमाँ इयर्म्यभ्रियेव वातः । यावर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन
वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना । तद्रासभो नासत्या सहस्रमाजा यमस्य प्रधने जिगाय
तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन्ममृवाँ अवाहाः । तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः
तिस्रः क्षपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतंगैः । समुद्रस्य धन्वन्नार्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः
अनारम्भणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे । यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम्
यमश्विना ददथुः श्वेतमश्वमघाश्वाय शश्वदित्स्वस्ति । तद्वां दात्रं महि कीर्तेन्यं भूत्पैद्वो वाजी सदमिद्धव्यो अर्यः
युवꣳ नरा स्तुवते पज्रियाय कक्षीवते अरदतम् पुरꣳधिम् । कारोतराच् छफाद् अश्वस्य वृष्णः शतꣳ कुम्भाꣳ असिञ्चतꣳ सुरायाः
हिमेनाग्निꣳ घ्रꣳसम् अवारयेथाम् पितुमतीम् ऊर्जम् अस्मा अधत्तम् । ऋबीसे अत्रिम् अश्विनावनीतम् उन् निन्यथुः सर्वगणꣳ स्वस्ति
परावतꣳ नासत्यानुदेथाम् उच्चाबुध्नꣳ चक्रथुर् जिह्मबारम् । क्षरन्न् आपो न पायनाय राये सहस्राय तृष्यते गोतमस्य
जुजुरुषो नासत्योत वव्रिम् प्रामुञ्चतꣳ द्रापिम् इव च्यवानात् । प्रातिरतꣳ जहितस्यायुर् दस्राद् इत् पतिम् अकृणुतꣳ कनीनाम्
तद् वाꣳ नरा शꣳस्यꣳ राध्यꣳ चाभिष्टिमन् नासत्या वरूथम् । यद् विद्वाꣳसा निधिम् इवापगूळ्हम् उद् दर्शताद् ऊपथुर् वन्दनाय
तद् वाꣳ नरा सनये दꣳस उग्रम् आविष् कृणोमि तन्यतुर् न वृष्टिम् । दध्यङ् ह यन् मध्व् आथर्वणो वाम् अश्वस्य शीर्ष्णा प्र यद् ईम् उवाच
अजोहवीन् नासत्या करा वाम् महे यामन् पुरुभुजा पुरꣳधिः । श्रुतꣳ तच् छासुर् इव वध्रिमत्या हिरण्यहस्तम् अश्विनाव् अदत्तम्
आस्नो वृकस्य वर्तिकाम् अभीके युवꣳ नरा नासत्यामुमुक्तम् । उतो कविम् पुरुभुजा युवꣳ ह कृपमाणम् अकृणुतꣳ विचक्षे
चरित्रꣳ हि वेर् इवाच्छेदि पर्णम् आजा खेलस्य परितक्म्यायाम् । सद्यो जङ्घाम् आयसीꣳ विश्पलायै धने हिते सर्तवे प्रत्य् अधत्तम्
शतम् मेषान् वृक्ये चक्षदानम् ऋज्राश्वꣳ तम् पितान्धꣳ चकार । तस्मा अक्षी नासत्या विचक्ष आधत्तꣳ दस्रा भिषजाव् अनर्वन्
आ वाꣳ रथꣳ दुहिता सूर्यस्य कार्ष्मेवातिष्ठद् अर्वता जयन्ती । विश्वे देवा अन्व् अमन्यन्त हृद्भिः सम् उ श्रिया नासत्या सचेथे
यद् अयातꣳ दिवोदासाय वर्तिर् भरद्वाजायाश्विना हयन्ता । रेवद् उवाह सचनो रथो वाꣳ वृषभश् च शिꣳशुमारश् च युक्ता