त्वं त्यमिन्द्र सूर्यं पश्चा सन्तं पुरस्कृधि । देवानां चित्तिरो वशम्
आ याहि वनसा सह गावः सचन्त वर्तनिं यदूधभिः
आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखः सुदानुभिः
पितुभृतो न तन्तुमित्सुदानवः प्रति दध्मो यजामसि
उषा अप स्वसुस्तमः सं वर्तयति वर्तनिं सुजातता
आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः । विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत्
इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः । इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय
इममिन्द्रो अदीधरद्ध्रुवं ध्रुवेण हविषा । तस्मै सोमो अधि ब्रवत्तस्मा उ ब्रह्मणस्पतिः
ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे । ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामयम्
ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः । ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम्
ध्रुवं ध्रुवेण हविषाभि सोमं मृशामसि । अथो त इन्द्रः केवलीर्विशो बलिहृतस्करत्
अभीवर्तेन हविषा येनेन्द्रो अभिवावृते । तेनास्मान्ब्रह्मणस्पतेऽभि राष्ट्राय वर्तय
अभिवृत्य सपत्नानभि या नो अरातयः । अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति
अभि त्वा देवः सविताभि सोमो अवीवृतत् । अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि
येनेन्द्रो हविषा कृत्व्यभवद्द्युम्न्युत्तमः । इदं तदक्रि देवा असपत्नः किलाभुवम्
असपत्नः सपत्नहाभिराष्ट्रो विषासहिः । यथाहमेषां भूतानां विराजानि जनस्य च
प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा । धूर्षु युज्यध्वं सुनुत
ग्रावाणो अप दुच्छुनामप सेधत दुर्मतिम् । उस्राः कर्तन भेषजम्
ग्रावाण उपरेष्वा महीयन्ते सजोषसः । वृष्णे दधतो वृष्ण्यम्
ग्रावाणः सविता नु वो देवः सुवतु धर्मणा । यजमानाय सुन्वते
प्र सूनव ऋभूणां बृहन्नवन्त वृजना । क्षामा ये विश्वधायसोऽश्नन्धेनुं न मातरम्
प्र देवं देव्या धिया भरता जातवेदसम् । हव्या नो वक्षदानुषक्
अयमु ष्य प्र देवयुर्होता यज्ञाय नीयते । रथो न योरभीवृतो घृणीवाञ्चेतति त्मना
अयमग्निरुरुष्यत्यमृतादिव जन्मनः । सहसश्चित्सहीयान्देवो जीवातवे कृतः
पतंगमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः । समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधसः
पतंगो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः । तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् । स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः
त्यमू षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् । अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम
इन्द्रस्येव रातिमाजोहुवानाः स्वस्तये नावमिवा रुहेम । उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषाम
सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान । सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्याम्